________________
विजयप्रशस्त्याम् ।
श्रीविजयसेनसूरीणाम्, किं०, महिमग्गुरूणाम् आकारान्तोऽपि महिमाशब्दोऽस्तीति महिमया माहात्म्येन गुरूणां महताम्, स्थितानां ज्येष्ठस्थितिं कृतवताम्, वाग्भिर्वाणीभिः, व्याख्यानदेशनाभिः मनुष्यलोक उल्लासभाग् अभूत्, अब्दनादैर्मेघगर्जितैः, यथा बर्दिवालो मयूरवालक इति । अयं इन्द्रवज्रोपेन्द्रवज्रयोश्वतुदशोपजातिभेदः || ३४ ॥
तं भूमिजानिं जिनशासनस्य पद्माकरामोदकरं निरीक्ष्य ।
पाथोजिनीनाथमिवास्तशोकः
कोको मुदं स्मैति विवेकिलोकः ॥ ३५ ॥ तं जिनशासनस्य भूमिजानिं राजानम्, पाथोजिनीनाथ सूर्यमिव किं०, पद्माकरं लक्ष्मीसमूहम्, आमोदं च हर्षम्, अथवा पद्माकरस्य लक्ष्मीनिकरस्य आमोदं करोति यस्तं पक्षे पद्माकरामोदकरः कमलाकरोल्लासकरस्तम्, निरीक्ष्य दृष्ट्रा विवेकिलोकः कोक इव अस्तशोको गतशोकः सन् मुदं दर्षे स्मैति प्राप्तवान् ।। ३५ ।।
सङ्घोऽनघस्तत्र सुशर्मनर्महर्म्याणि कर्माणि च धार्मिकाणि । निर्मापयामास मुनीमहेन्द्र
६२०
पुण्योपदेशेन मुदा मनस्वी ॥ ३६ ॥
पुनः, तत्र नगरे, सङ्घः किं०, अनवो निष्पापः पुनः किं०, मुदा हर्षेण मनस्वी हृष्टः सुमना वा, मुनीमहेन्द्राणां मुनीन्द्राणां मुनिवद् सुनीशब्दो लिङ्गानुशासने पुंस्त्रीलिङ्गे प्रोक्तोऽस्तीति मुनीमहेन्द्रपुण्योपदेशेन मुनीन्द्रधर्मोपदेशेन, सुशोभनं यच्छर्म सौयं तस्य नर्महर्म्याणि लीलागृहाणि, धार्मिकाणि कर्माणि सुकु