SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः । ६२१ तकृत्यानि, निर्मापयामास निरमापयत् ।। इयं वृत्तद्वयी इन्द्रवजामयी ॥ ३६॥ तद्भपतिः पाहडखान्ननामा प्रतापधामाऽस्तसहस्रधामा । सेवाऽर्थमभ्यर्णमगाद् गुरूणां __ श्रीमान् सुपर्वेव मरुद्गुरूणाम् ॥ ३७ ॥ तस्य नगरस्य तदानीं भूपतिः स्वामी, पाहडखाननामनृपः किं०, प्रतापस्य धान्ना उग्रत्वेन अस्तः सहस्रधामा सूर्यो येन सः, एकदा गुरूणां तेषां सेवार्थ आलयेऽभ्यर्ण समीपम् , अगात् प्राप्त इति, सुपर्वा देवः, इव यथा, मरुद्गुरूणां सुरगुरूणां बृहस्पतीनामिति यावत् , अत्र पूज्यत्वाद् वहुत्वमिति । अयं षष्ठोपजातिभेदः ॥ ३७॥ निर्ग्रन्थनाथा अथ तत्र सत्र स्थानोपमाने सुकृतोद्यमानाम् । पुरे प्रसिद्ध विधिना वितेनु___ ज्येष्ठां स्थिति सङ्घमहाग्रहेण ॥ ३८ ॥ अथ तत्र पुरे, किं०, प्रसिद्धे पृथ्व्यां प्रतीते, पुनः किं०, सुकृतोद्यमानां सत्रस्थानोपमाने, सत्रागारे हि धान्यादि सुलभम् , तथा तत्रापि धर्मोद्यमानां सुलभतेति, निग्रंन्धनाथा गुरवः, सङ्घस्य महाग्रहेण ज्येष्ठां स्थितिं चतुर्मासी, वितेनुश्चक्रुरिति । अयमुपजातेस्तृतीयो भेदः ॥ ३८ ॥ . लाभोऽभवत् तत्र गुरोर्गरीया नगण्यपुण्यप्रकटक्रियाणाम् । प्रौढप्रभावाभ्युदयाद् वलक्ष
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy