SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः1 ५७९ तत्राथ भूयांस उपेयिवांसो _ निर्ग्रन्थसार्थाः सपरिच्छदाश्च । तुङ्गे विहङ्गाः फलपुष्पपत्र पूर्णे घनच्छाय इवावनीजे ॥ १६ ॥ अथ तत्र नगरे, च पुनः, गीतार्थसार्थाः पण्डितसङ्घाः,कि०, सपरिच्छदाः परिकरपरिवृताः, पुनः, भूयांसो बहवः, उपेयिवांस आगता इति, दृष्टान्तमुत्तरार्धेनाह-इव यथा, अवनीजे भूरुहे, किं०, तुङ्गे उच्चे, पुनः, फलपुष्पपत्रैः पूर्णे, पुनः, घनच्छाये छायाशालिनि, विहङ्गाः पक्षिण इति ॥ १६ ॥ ... तैरागतैः सङ्घजनैः श्रियाऽऽढ्यैः सर्वैः सुवेषैः शुशुभे पुरं तत् । पाथोरुहौधैः सरसीव काम ____ मामोदिभिः फुल्लतमाऽऽस्यकोशैः ॥ १७ ॥ - तैः सजनैः श्रियाऽऽढ्यैः, पुनः, सुवेषैः शोभनवस्त्रैः, तत्र बन्दिरे आगतैः, तत् पुरं शुशुभ इत्यन्वयः; इव यथा, पाथोरुहौघैः पापकरैः, सरसी सरः, विभाति, किं०, कामम् , आमोदिभिर्गन्धवद्भिः, सङ्घपक्षे हर्षवद्भिः, फुल्लतमाऽऽस्यकोशैः स्मेरतराननकुमलैरिति द्वयोस्तुल्यं विशेषणम् ॥ १७ ॥ श्रीसङ्घलोकैः सरलावलोकः __ कोकैरिवाम्भोरुहबन्धुबिम्बम् । वीक्ष्यैनमाचार्यमहार्यवीर्य लेभे प्रमोदः प्रगुणस्तदानीम् ॥ १८ ॥ श्रिया युक्ताः सङ्घलोकाः, साधुसार्वाधादश्राद्धीपास्ता,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy