SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ५७८ विजयप्रशस्त्याम् । मर्थव्ययं कर्तुमना मनखी ॥ १३ ॥ श्रीगूर्जरत्रामरुमेदपाट__सौराष्ट्रसिन्ध्वादिषु मण्डलेषु । सर्वेष्वथो कुङ्कुमपत्रिकाणां पात्रीचकाराऽखिलसङ्घलोकम् ॥ १४ ॥ लक्ष्मीलतायाः संपवल्ले, एतदेव फलं चेतसि मनसि, विदन् जानन् , स श्रेष्ठीशः, कि०, प्रचेताः प्रमना हष्टमानस इति, पुनः कि०, कर्तुमनाः कर्तुकाम इति, किं, अर्थव्ययं धनोत्सर्ग, किमर्थमित्याह-आचार्यपदोत्सवार्थ गुरुपट्टधरपदमहोत्सवायेति ॥१३॥ श्रिया युक्ता गूर्जरत्रा प्रसिद्धा, मरवो मरुस्थलीनामका देशा नवकोट्टप्रतीताः, मेदंपाटः प्रागवर्णित इति, सौराष्ट्रः शत्रुञ्जयोज्जयन्ताद्रितीर्थपवित्रः, सिन्धुदेशः सिन्धुनाम्न्या नद्योपलक्षितः,आदिशब्दाद् मालवमेवाताऽऽदिग्रहः,तत इत्यादिमण्डलेषु देशेषु, सर्वेष्वपि समस्तेषु, अखिलसङ्घलोकं कुङ्कुमपत्रिकाणां लोके कुंकोतरीतिप्रतीतानां, पात्रीचकार हर्षपत्रकमेषणद्वारा आहूतवानिति ॥ इति युग्मव्याख्या ॥ १४ ॥ ते स्वस्वदेशाद् वरवस्त्रवेशाः । योनिवेशाः समुपेयिवांसः । श्रीस्तम्भतीर्थे नगरेऽथ लोकाः पान्था जलाऽऽत्ये सरसीव शीघ्रम् ॥ १५ ॥ अथ ते लोकाः, कि०, वरवस्त्राणां वेशः परिधानं येषां ते, पुनः किं०, श्रेयोनिवेशाः सुकृतस्थानानि, स्वस्वदेशात् श्रीस्तम्भतीर्थे नगरे समुपेयिवांसः प्राप्ताः यथा पान्थाः पथिकाः, जलाऽऽढ्ये सरसि तटाक इति ॥ १५ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy