SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः । सर्वज्ञवाचां श्रवणैः प्रधानपूजाभिरर्हत्पदपङ्कजानाम् । संसेवनैश्च व्रतिसत्तमानां रत्नत्रयीति क्रियतेऽमुनाऽर्ध्या ॥ ११ ॥ सर्वज्ञवाचां अर्हद्गिर, श्रवणैः आकर्णनैः, पुनः, अर्हत्पदपङ्कजानां जिनचरणकमलानां प्रधानपूजाभिः विशिष्टार्चाभिः, च पुनः, प्रतिसत्तमानां साधूचमानां, संसेवनैर्भजनैः, इति व्याख्यातस्वरूपैस्त्रिभिर्लक्षणैः, अमुना श्रेष्ठिना श्रीमल्लनाम्ना, ज्ञानदर्शनचा - रित्राऽऽराघनरूपा रत्नत्रयी, अर्ध्या शोभमाना, क्रियत इति ॥ ११ ॥ रत्नत्रयाऽऽवासनिवासरत्न मेनं गुरूणामुपदेशमाप्य । श्रेयोऽन्तरायक्षिविहस्ति मल्लः श्रीमल्लसाधुः स हृदाऽतिहृष्टः ॥ १२ ॥ ५७७ गुरूणां भीविजय सेनसूरीणाम्, एनं पूर्वोक्तम्, उपदेशं सुकृतफलव्याख्यानलक्षणं, किं०, रत्नत्रयरूपो य आवासस्तत्र निवासरनं दीपं तदुद्योतकत्वात्, आप्य प्राप्य श्रुत्वेति यावद्; स श्रीमल्लसाधुः किं०, श्रेयसि धर्मे योऽन्तरायो विघ्नस्तस्य - क्षितौ विघ्नध्वंसे हस्तिमल्लो गणेशः, “हस्तिमल्लो हेरम्वे" इत्यनेकार्थत्वात्, हृदा मनसा, अतिहृष्टोऽतिहर्षितवान् ॥ १२ ॥ अथ यच्चक्रे तद् वृत्तद्वयेनाह 9. लक्ष्मीलतायाः फलमेतदेव सम्यग् विदश्चेतसि स प्रचेताः । श्रेष्ठीश आचार्यपदोत्सवार्थ or
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy