SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः । श्राद्धा व्यधुः प्रत्यहमुन्नतोन्नतं सङ्गेषु वात्सल्यमतुच्छमुत्सुकाः । प्राज्यप्रजाप्रीतिपरैरपांभरैः पाथोधराश्वातकपोतकेष्विव ॥ ३९ ॥ प्रत्यहं निरन्तरं, संघेषु वात्सल्यं, किं०, उन्नतोन्नतं द्रव्यतोऽपि भावतोऽपि च, श्राद्धा व्यधुः । दृष्टान्तमाह-इव यथा, पाथोधरा जलदाः, अपांभरैः जलप्राग्भारैः किं०. प्राज्या याः प्रजा लोकास्तत्मीतिकरणे तत्परैः, चातकपतकेषु बप्पीहबालकेष्विति ॥ ३९ ॥ कुर्वत्सु हृत्प्रीतिमखण्डितान्तरां धर्मेष्वमीषु प्रसभं भवत्विति । ३६७ तत्र प्रतापः सुगुरोरभूत्तमां धर्मस्य घस्रेषु तमोरिपोरिव ॥ ४० ॥ अखण्डितान्तरां निरन्तरां, हृत्प्रीतिं कुर्वत्सु अमीषु उक्तलक्षणेषु धर्मेषु पुण्यकृत्येषु, इति प्रसभं अहंपूर्विकया हठेनैव, भवत्सु जायमानेषु सत्सु तत्र नगरे, सुगुरोः प्रतापोऽभूत्तमाम् । दृष्टान्तो यथा - धर्मस्य ग्रीष्मस्य, घस्रेषु दिवसेषु, तमोरिपोः सूर्यस्य इवेति ॥ ४० ॥ गच्छत्खतुच्छोत्सवशालिषु प्रति स्थानं गुरोर्द्राग् महिमा दिनेष्वभूत् । पुण्यैकपाथोनिधिवृद्धिदायिनः पक्षस्य शुक्लस्य निशापतेरिव ॥ ४१ ॥ दिनेषु किं०, अतुच्छाः पूर्णा ये उत्सवास्तच्छालिषु,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy