SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३६८ विजयाशस्त्याम् गच्छन्सु सत्सु, गुरांमहिमा प्रतिस्थानमभूद् , गीयमान इति शेषः । यथा निशाएतेश्चन्द्रस्य, कि०, पुण्येकपायोनिधिद्धिदायिनः सुकृतसिन्धुद्धिकतुः, शुक्लस्य पक्षस्य दिनेषु गच्छत्सु तंजीमहत्त्वरूपी महिमा भवेत् ।। ४१ ॥ अत्यर्थमानन्दिमना मनस्विराट श्रीखानखानाऽवनिजानिकुञ्जरः । जज्ञे गुरोर्दर्शनीमच्छुरुत्सुको ___ ज्योत्स्नाप्रियः शीतरुचेरिवाऽन्यदा ॥ ४२ ॥ श्रीखानखानाख्योऽवनिजानिकुञ्जरः राजेन्द्रगजेन्द्रः, कि०, अत्यर्थं आनन्दिमना मुदितचेताः सन् , पुनः किं०, मनविराट् सहृदयमुख्यः, अन्यदा उत्सुकः सन् गुरोर्दर्शनमिच्छुः जहं जात इति । दृष्टान्तमाह-यथा शीतरुचेः शशिनः, ज्योत्स्नाप्रियश्चकोर इति ॥ ४२ ॥ आकारितः श्रीगुरुरादरस्पृशा श्रीखानखानाऽवनिजानिना ययौ । सौधं तदीयं बहुमानमञ्जुलं वित्तेशितेव स्फटिकावनीघरम् ॥ ४३ ॥ आदरस्पृशा भक्तिमता, श्रीखानखानावनिजानिना बहुमानमञ्जुलं यथा स्यात् तथा, आकारित आहूतः सन् , श्रीगुरुस्तदीयं सौधं ययो, वित्तेशिता धनद इव, स्फटिकावनीधरं कलासम् इति दृष्टान्तोत्क्षे ॥ ४३ ॥ तडाम्नि लेभे सुमनोभिरावृतः सद्दक्षजाते स महत्त्वमहृतम् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy