SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् | पुष्पैः वसन्तेशमिव दुमोत्करः || ३६ || " तदा संघ आदरात् श्रीगुरुराजं चामीकररूप्यनाणकैरानर्चेत्यन्वयः । यथा दुमोत्करस्तरुनिकरः किं०, लब्धः प्रसादो विभूतिप्राप्तिरूपो येन सः स्मितरम्यमालतीपुष्पैविकसितजात्यजातीकुसुमैः, वसन्तेशं स्वस्वामिनं, पूजयतीति दृष्टान्तः ।। ३६ ।। श्रेयः फलश्रीफलरूप्यनाणकैः ३६६ श्राद्धा व्यधुः कीर्तिकरीः प्रभावनाः । वृष्टीः पयोदा इव पुण्यजीवनास्तोयैर्जगत्प्रीतिलतामहोदयैः ॥ ३७ ॥ श्रीफला नालिकेराः, रूप्यनाणकानि प्रतीतानि तैः किं०, श्रेयसां मङ्गलानां धर्माणां वा फलैः, श्राद्धाः कीर्तिकरीः प्रभावना व्यधुश्चक्रुः इव यथा, पयोदा मेघाः तोयैः जलैः, किं०, जगत्प्रीतिरेव लता तस्या महोदयोद्गमो येभ्यस्तैः, दृष्टीः किं०, पुण्यं जीवनं यासु ताः, प्रभावनाः किं०, पुण्यस्य जीवनं यासु ताः, कुर्वन्तीति दृष्टान्तः ।। ३७ ।। पूजाः प्रमोदात् प्रतिचैत्यमर्हतां श्राद्धैः क्रियन्ते स्म तदाऽतिबन्धुराः । संपत्तयो द्राक् प्रतिकाननं सुखोल्लासैरपाचीपवनैरिवाभितः ॥ ३८ ॥ तदा श्राद्धैः प्रतिचैत्यमर्हतां पूजाः क्रियन्ते स्म यथा - पाचीपवनैर्दक्षिणाशात्रातैः किं०, सुखोल्लासैः सौख्योलासिभिः प्रतिकाननं वनं वनं प्रति, संपत्तयः कुसुमादिरूपाः, क्रियन्तेऽभितः सर्वत इति ॥ ३८ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy