SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः। ३६५ अग्रे गुरोश्चक्रुरदभ्रविभ्रमाः ____पीठे भुवोऽङ्के घुसणार्णसारुणे । मुक्ताक्षतैः स्वस्तिकपतिमङ्गना ___ रूपश्रिया निर्जितनिर्जराङ्गनाः ॥ ३४ ॥ गुरोरने अङ्गनाः, किं०, अदभ्रा बहवो विभ्रमा भूविलासाः षोडशकाररूपशोभा वा यासां ताः, पुनः किं०, रूपश्रिया निर्जिता निर्जराङ्गनाः सुराङ्गना याभिस्ताः, पीठे पादपीठपट्टिसादौ, पुनः, भुवोऽङ्के भूत्सङ्गे, किं०, घुसणाऽणसाऽरुणे कुटुमपानीयेनाऽरुणे पाटले विहिते सति, मुक्ताक्षतैः खस्तिकपहिं चक्रुः ॥ ३४ ॥ पुष्पैः प्रभूतैस्तपनीयजन्मभि वर्धापयन्ति स्म गुरुं मृगीदृशः। फुल्लैः प्रफुल्लैरिव चारुचाम्पकै___ऋत्वब्जनेत्राः स्मरराजमागतम् ॥ ३५ ॥ प्रभूतैः बहुभिः, तपनीयजन्मभिः सौवर्णैः, पुष्पैः गुरूं मृगीशो वर्धापयन्ति मेत्यन्वयः । उत्प्रेक्षामाह-इवोत्प्रेक्ष्यतेचारुचाम्पकैः चश्चञ्चम्पकसंबन्धिभिः, फुल्लैः पुष्पैः, किं०, प्रफुल्लः, मेरैः, ऋतुखिय आगतं स्मरराजं कामभूपं, वर्धापयन्ति स्मेति । पुष्पवाचकफुल्लभन्दोऽपि लिङ्गानुशासनविवरणगतोऽस्तीति ध्येयम् ॥ ३५॥ आनर्च चामीकररूप्यनाणकैः ___ संघस्तदा श्रीगुरुराजमादरात् । लब्धप्रसादः स्मितरम्यमालती
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy