SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ ६४६ विजयपशस्त्याम् । सन्मेखलाभूषितभूमिदेशम्। सन्नागरीयव्यवहारिहारि व्यापारविस्तारिवसुप्रवेशम् ॥ ३८ ॥ सान्द्रद्रुमखर्दुमकाननाली क्रीडत्सुदृक्वर्गसुदृङ्मनोज्ञम् । . आतोद्यपाथोदनिनादहृद्यं सन्नन्दनं सुन्दरभद्रशालम् ॥ ३९ ॥ सुवर्णपूर्ण विबुधाधिगम्यं वृषप्रकर्षोत्सवराजिरम्यम् । खःसगिरिं वा कुमराग्रगामि गिरि पुरं श्रीगुरवोऽधिजग्मुः ॥ ४० ॥ वा इवार्थे, तेन इव यथा, स्वासगिरिं सुरगिरिमिव, श्रीगुरवः पूज्यास्ते, कुमराग्रगामिगिरि पुरं कुमरगिरिनगरं अधिनग्मुः, अथ कुमरगिरिं सुरगिरिं च समानधर्मत्वेन वर्णयति-अमन्देन मोदेन उद्यत्ममोदेन उच्छलन्तो ये अच्छलाङ्गिनो निर्मायपुरुषास्तल्लक्षणैर्वहिभिर्मयूरैः प्रवर्हाणि प्रकृष्टानि आलया एव तुङ्गशृङ्गाणि उच्चशिखराणि यत्र तं, पुनः कि०, तीर्थेशस्य अर्थादासनोपकारिश्रीमहावीरस्य यत्तीर्थ शासनं चतुर्विधसङ्घो वा तल्लक्षणो य उत्कटः प्रोद्धतः पुण्डरीकः शार्दूलस्तस्य विक्रीडितेन क्रीडया भ्राजितः शोभितो मध्यभागो यत्र तम् ॥ ३७ ॥ पुनः किं०, श्रद्धालुसाध्वोरगार्यनगारयोर्यः स्फुटो धर्मो द्विविधस्तस्य कर्माणि कृत्यानि क्रियारूपाणि तल्लक्षणे ये मेखले ताभ्यां भूषितो भूमिदेशो यत्र तं, पुनः किं०, सन् विद्यमानो यो नागरीयो भूरितरदेशपरदेशिनगरसत्को व्यवहारेण हारी न्यायोपपन्न
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy