SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः। ६४५ चक्रुस्तरां स्फारफलां तदीय विज्ञप्तिमाप्तावनिवासवास्ते ॥ ३५ ॥ घनौघा मेघप्रवाहा इव लता, ते आप्तावनिवासवा मुनिवरेन्द्राः, तदीयविज्ञप्तिं स्फारफलवती चक्रुस्तरामनुमेनिरे इति, लतां विज्ञप्तिं च विशेषणद्वारेण विशिनष्टि-किं०, आमोदेन गन्धेन हर्षेण च भृतां, पुनः किं०, नितान्तं नित्यं कान्तैः प्रियैः, फलौघैरनघां निर्मला मनोज्ञां वेति ॥ ३५॥ अथो तिथौ सर्वसुखातिथौ ते __ वारे जयश्रीप्रणयप्रचारे। .......... योगे जगद्रङ्गतरङ्गयोगे क्षणे क्षणाढ्ये ललिते च लग्ने ॥ ३६ ॥ अथ पत्तननगरात् तिथौ, किंलक्षणे, सर्वसुखानामतिथौ, तिथिशब्दस्य पुंस्त्रीलिङ्गत्वात् पुंस्त्वविशेषणमदुष्टमाषाढशुद्धप्रतिपदि, पुनर्वारे किं०, जयश्रीणां जयलक्ष्मीणां प्रणयस्य प्रचारो यस्मिंस्तस्मिन् जयदायिनि गुरुवासर इति, पुनर्योगे किं०, जगद्रङ्गतरङ्गस्य योगः संबन्धो यस्मिंस्तस्मिन् गुरुपुष्यसंयोगजातेऽमृतसिद्धिनाम्नि योगे, पुनः, क्षणे पश्चदशलवप्रमाणे, किं०, क्षणाढ्ये उत्सवमये, च पुनः, लग्ने ललिते मनोज्ञग्रहस्थि. तिशालिनीति भावः ॥ ३६॥ अमन्दमोदोच्छलदच्छलाङ्गि बर्हिप्रबर्हालयतुङ्गशृङ्गम् । तीर्थशतीर्थोत्कटपुण्डरीक विक्रीडितभ्राजितमध्यभागम् ॥ ३७ ॥ श्रद्धालुसाधुस्फुटधर्मकर्म
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy