SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ ६४४ विजयप्रशस्त्याम् । भावनारूपो विचित्रवादित्रपवित्रगीतगानादिगयमहाडम्बरस्तस्य सूचने डिण्डिमाभान् पटहतुल्यान् , प्रकुर्वति सति, मुनीना भूपो गुरुः, कि०, श्रीसुततुल्यं कामसमानं रूपं यस्य सः, तं मेघराज लुम्पाकवेपधारिणं स्थानकत्रिकोपेतं, यतित्वेऽधात् तपागच्छसंवन्धिवेषप्रदानपूर्वकं दीक्षितवानिति ॥ ३२ ॥ सङ्घोऽन्यदा श्रीकुमरादिमस्य गिरेः पुरस्य प्रतिपत्तिपूर्वम् । विज्ञेश्वरान् विज्ञपयाम्बभूव विस्तारवद्वैनयिकैर्वचोभिः ॥ ३३ ॥ अन्यदा श्रीकुमरादिमस्य गिरेः कुमरगिरेः पुरस्य पत्तननगराभ्यर्णवर्तिनः सङ्घः प्रतिपत्तिपूर्व भक्तिपूर्वकं, विज्ञेश्वरान् गुरून् , वचोभिर्वचनैः, किं०, विस्तारवद्वैनयिकैर्विस्तारिविनयैः, विज्ञपयाम्बभूव विज्ञप्तिकामग्रे वक्ष्यमाणलक्षणां चकारेत्यर्थः॥३३॥ कृपालवः श्रीमहनीयपादाः प्रसादमाधाय गतावसादाः। अस्मास्वनुग्राहिधियोऽस्मदीये __ पुरेऽथ वर्षास्थितिमातनुध्वम् ॥ ३४ ॥ अथ श्रीमहनीयपादाः पूज्यपादाः, किं०, कृपालवो दयालवः, पुनः, किं०, गतावसादा विगतविषादाः, प्रसादमाधाय विधाय, पुनः किं०, अस्मासु अस्मादृशेष्वपि जनेषु अनुग्राहिणी धीर्येषां ते अनुग्राहिधियः, अस्मदीये पुरे पूर्वोक्तनामके, वर्षास्थितिं चतुर्मासीम् , आतनुध्वं कुरुध्वम् ॥ ३४ ॥ लतामिवाऽऽमोदभृतां नितान्त कान्तैः फलौघै.नघां घनौघाः ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy