SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ६०६ विजयप्रशस्त्याम् । ____ अथ तद्माता तस्य पनीपालस्य भ्राता गकरनामा साधु: श्राद्धः, किं०, इद्धा दीप्ता श्रद्धा धर्मास्था यस्य सः, शुद्ध शम्भवस्वाप्रिनस्तृतीयतीर्थङ्करस्य विम्यम्, कि०, बाणाः पञ्च, स्रोतसां नदीनां प्राणनाथा अर्थात्समुद्राः सम, एतयोयोरङ्कयोमिगतिगणितयोः पञ्चसप्ततिसंख्ययोस्तुल्यैरजुलैर्भवं घाणस्रोतःमाणनाथाङ्गुलीयं पञ्चसप्तत्यङ्गुलमितमिति, श्राद्धः कि०, श्रेय. स्कामः पुण्याभिलाषी मोक्षाभिलाषी वा, स्वाख्यया स्वनाना, अकारयत् कारितवान् । इदं वृत्तद्वयं शालिनीच्छन्दसा, तल्लक्षणं चेदम् “शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः" इति ॥४॥ अथेभ्यसभ्यः स च पुण्यपालः - कृपालुहृच्छीतलनाथबिम्बम् । मनोरमं क्ष्माविशिखाङ्गुलीयं विधापयामास निजेन नाम्ना ॥ ५॥ अथ स पुण्यपालः, किं०, इभ्येषु सभ्यः, अथवा इभ्यश्चासौ सभ्यश्चेति, निजेन नाम्ना कृपालुहृदयः शीतलनाथो दशमस्तीर्थकृत् तद्विम्बम् , अथवा कृपालुहृदिति दयालुमना इति श्रादस्य पृथग् विशेषणम् , शीतलनाथविम्बं कि०, मनोरम रम्यम् , पुनः, क्ष्मा एका, विशिखा वाणाः पञ्च, वामक्रमेण मीलितैरेकपञ्चाशताऽङ्गुलैर्भवं माविशिखाकुलीयम् , विधापयामासा:कारयदिति ॥ ५॥ भ्राताऽनयो करनामधेयः ___ सुधीः शुभं शम्भवनाथबिम्बम् । विभावरीवल्लभपत्रवाहा अलैर्मितं कारयति स्म भक्त्या ॥ ६ ॥ अनयोः पुण्यपालठकरयोः पूर्वोक्तयोः श्राद्धयोः, भ्राता ना.
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy