SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ एकविंशः सर्गः। ६९१ कि वेयं रुचिरस्ति मित्रहृदयाह्लादप्रदानोद्यता सौभाग्यैकमयीं विलोक्य विबुधैर्यन्मूर्तिमित्युच्यते॥६२॥ - यन्मूर्ति, कि०, सौभाग्यकमयीं केवलसौभाग्यशालिनी, विलोक्य,विवुधैः पण्डितैः,इति पूर्वपदत्रयीवर्णितं यथा,इति उच्यते, इति क्रियाकारकसंपर्कः । तदेवाह-इयं किं लक्ष्मीः?,तन हेतुमाहकि०, पुरुषोत्तमप्रणयिनी, मूर्तिपक्षे पुरुषोत्तमा नरोत्तमाः शाहिश्रीमदकब्बरप्रभृतयस्तेषां प्रणयिनी वल्लभा, पक्षे पुरुषोत्तमो नारायणस्तस्येति, पुनः, किं पार्वती ?, किं०, वामदृग् मनो. जनयना मनोज्ञदर्शना वा, पक्षे वामे महेश्वरे दृग् दृष्टिर्यस्याः सेति पुनरियं किं ब्राह्मी ?, किं०, कवीनां पण्डितानां, तुष्टिकृत् , पक्षे कवेर्विधातुस्त-पुत्रीत्वादिति, पुनरियं किं शची ?, किं०, शश्वत् सततं वृपस्य धर्मस्य उल्लासिनी, पक्षे वृषा शक्र. स्तस्येति, वाऽथवा, इयं किं रुचिरस्ति ?, अस्तीति क्रिया सर्वत्र योज्यते, किं०, मित्राणां सुहृदां, हृदयाहादप्रदाने उद्यता उत्सुका, पक्षे मित्रस्य सूर्यस्य तत्कलत्रत्वादिति; शेषं सुगमम् ।। ६२॥ मूर्तिर्यस्य गुरोर्निकामसुभगाऽस्त्यानन्दकन्दाङ्करः किश्चात्रैव मनोज्ञसङ्गतिरयं रम्यो गुणानां गणः । योगं रत्नसुवर्णयोरिव सृजन् धाताऽनयोर्दूषणं खीयं रत्नविडम्बकोऽयमिति यद् विद्मः पिधत्ते स्म तत्।६३॥ ___यस्य गुरोर्मूर्तिनिकाममत्यर्थं सुभगा अस्तीत्यन्वयः । अत एव किं०, आनन्दकन्दाङ्कुरः सर्वेषामप्यालादहेतुत्वात् , किञ्च, अत्रैव मूर्ती शरीरे, अयं गुणानां ज्ञानादीनां व्यावणितस्वरूपाणां, गणो रम्यो रुचिरोऽस्तीति, कि०,मनोज्ञसङ्गतिस्तुल्यसनम इति, अतः कारणात् , अनयोर्गरुमूर्तिगुणगणयोः,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy