SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ५१८ विजयप्रशस्त्याम् । निर्वियोगिनी, अभूताम् , गुरोमिलनाद् नृपमनसः कृपा न कदापि दूरीभूताऽस्तीति,इमौ कि०, भावश्चित्तोन्नतिस्तद्रसान् प्रपन्नौ, अत्यध्याहियते, अथ स विवाहमन्त्रः, त्वां विना परत्र परस्मिन् , नास्ति; ततश्चादः प्रत्यक्षं, सरन् अहं तापमुपैमीति, हीति खेदवाचकोऽव्ययः ॥ अर्थतो युग्मम् ।। ६५ ।। अकब्बरो बब्बरवंशजन्मा वयीबुद्धिर्भृशमस्ति भूपः। सुभक्तिभाजस्वयि येऽसुभाजः स तानसून् खानिव पाति. नित्यम् ॥६६॥ हे गुरो! बब्बरवंशजन्माऽकब्बरः शाहिः, त्वयि भृशं इद्धबुद्धिर्दीप्तमतिः, अस्ति; तस्माद् येऽसुभाजः प्राणिनः, त्वयि सुभक्तिभाजः सन्ति स भूपस्तान् स्वान् अनिव निजप्राणानिव, पाति रक्षतीत्यनिष्टोपद्रवेभ्य इति ॥६६॥ अभूदु यदारोह इहास्तिकानां सुदुर्लभः कल्प इवाऽनयानाम् । स सिद्धशैलो भगवन् ! भवद्वाक्__ प्रदीपसोयोतहदा व्यधायि ॥ ६७ ॥ अकबरेणाऽवनिवल्लभेन ___ यदार्हतानां करसाद् नितान्तम् । सुधांशुतुल्या तव कीर्तिरेषा विशेषविद्भिर्लिखिताऽर्कबिम्बे ॥ ६८ ॥ अनयोाख्या-हे भगवन् ! अनयानां अभाग्यानां नराणां, कल्पतररिव, अथवाऽनयानां नयहीनानां, कल्प आचार इव,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy