________________
३१०
बिजयमशस्त्याम् |
निजाइयुक्तेः अस्मदुत्सङ्गास्पदमोचनात् बहून् देशान् बिहारैः भूषयतः सतो लक्ष्मीः स्यादिति ॥ ३५ ॥ ध्यात्वेत्यथो व्याकरणादिविद्याविद्याधरी भोगनभोगमानाम् ।
आज्ञामनुज्ञातगणेन्दिराणा
मेषां विहाराय ददुर्दमन्द्राः ॥ ३६ ॥
अथेति ध्यात्वा इति मनसि निश्चित्य, एषां, आचार्याणां किं०, अनुज्ञाता गणेन्दिरा गच्छलक्ष्मीः येषां तेषां विहाराय आज्ञां विहारादेशं, दमीन्द्रा गुरवः, ददुर्दत्तवन्त इति । एषां किं०, व्याकरणादिर्या विद्या आदिशब्दात् साहित्यतर्कज्योतिश्छन्दोलङ्कृतिमभृतिग्रहः सैव विद्याधरी खेचरी, तस्या भोगे नभोगमानां विद्याधराणामिति ॥ ३६ ॥
आदाय दामेव गुरोर्निदेशं मूर्ध्नाथ मूर्द्धन्य ऋषीश्वराणाम् ।
क्रमेण सोऽपापमवाप चम्पा -
नेरं पुरं दुर्गमदुर्गमूर्त्तिः ॥ ३७ ॥ ऋषीश्वराणां मूर्द्धन्यः श्रीआचार्यः, गुरोः श्रीहीरविजयसूरेः, निदेशं विहारादेशं, दामेव मालामिव, मूर्ध्ना आदाय लात्वा, क्रमेण गुरुपार्श्वाच्चलन् चम्पानेरं पुरं दुर्ग, अवाप प्राप्तः किं० अपापं निष्पापमिति क्रियाविशेषणं नगरविशेषणं वा स किं०, अदुर्गाऽचण्डा मूर्त्तिर्यस्य सः सौम्यमूर्त्तित्वादिति ॥ ३७ ॥
श्रेष्ठीभ्यसभ्यो जयवन्तनामा तत्रोत्सवैर्दत्तजगत्प्रमोदैः ।