________________
त्रयोदशः सर्गः।
४८७ दप्यस्ति विस्तारमितः प्रशस्तः। श्यामं तमोमण्डलमतिकृद् यद्
येनाऽङ्गलग्नेन समूलमस्तम् ॥ ६ ॥ तरणेः मूर्यस्य, प्रकाशादपि यद्वर्त्मरेणुविस्तारमितो विस्तृति प्राप्तः, प्रशस्तोऽस्तोत्यन्वयः । निदानमाह-यद् यतः कारणाद्, येनाऽङ्गलग्नेन तमोमण्डलं समूलमस्तं अपुनर्भावेन तमसः पापस्य मण्डलं ध्वस्तमिति, कीदृशं, श्यामं कृष्णं, पुनः, अर्तिकृत् पीडाकर, मूर्यप्रकाशेन हि समूलं तमो न निरस्यते पुनरप्यन्धकाराविर्भावात् , तथा गिरिगहरादीनां तमसस्तादवस्थ्यात् ,अनेन तु गिरिमार्गरेणुना स्पृष्टेनापि समूलं तमो निहन्यते, ततस्तरणितेजसोऽपि प्रशस्तो यत्पथरेगुरिति तात्पर्यम् ॥ ६ ॥
गङ्गाप्रवाहादपि यस्य वर्त्म
पांसुप्रपञ्चोऽस्त्यधिकत्वशाली । योऽभूच्छिवोल्लासकविप्रमोद
श्रीपत्यदभ्रोत्सवमूलमुच्चैः ॥ ७ ॥ यस्य वर्मपांसुप्रपञ्चः गङ्गाप्रवाहादपि अधिकत्वशाली अतिशयवान , अस्तीत्यन्वयः। यतोऽयं शिवस्य गोक्षस्योल्लासः शिवोल्लासः, पुनः, कवीनां पण्डितानां प्रमोदः कविप्रमोदः, पुनः, श्रीपतीनां धनिनां अदभ्रोत्सवो महोत्सवस्तेषां शिवोल्लासकविप्रमोदश्रीपत्यदभ्रोत्सवानां मूलमासीदिति, श्लेयपक्षे तु शिवोल्लासो महादेवोल्लासः, कवेब्रह्मणः प्रमोदः कविप्रमोदः, श्रीपतेर्नारायणस्यादभ्रोत्सवस्तन्मूलमभूदित्याधिक्यभान, गङ्गापवाहस्तु शिवोल्लासः श्रूयते, न तु कविप्रमोदश्रीपत्यदभ्रोत्सवमूल-. मिति न्यूनत्वभाव ॥ ७॥