SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४८८ विजयप्रशस्त्याम् । आरोहमार्गोऽत्र विभाति शैले आरोढुमुच्चैस्तरसिद्धिसंज्ञम् । सौधं धुताबाधमनाधिमाशु निश्रेणिसोपानपरम्परेव ॥ ८॥ . अत्र शैले श्रीशत्रुञ्जये, आरोहमार्गः पद्यारूपः, विभातीत्यन्वयः। इवोत्प्रेक्ष्यते-उच्चस्तरं सिद्धिसंज्ञं सौधं, कि०,धुता आवाधा पपुर्यथा यत्र तत् , तथाऽनाधिं न विद्यते आधिर्मानसी व्यथा यत्रेति, अत्र सौधशब्दस्य पुबलीवलिङ्गत्वादनाधिमित्यदुष्टम् , आ रोई, निश्रेणेः सोपानपरम्परा तया हि सुखेन सौधमारुह्यते ॥८॥ .. तारोत्करैरिन्दुरिवातिसौम्यो भासां भरैर इव प्रतापी । भूयोभिरागादृषिभिर्वृतः श्री · सूरिस्ततस्तत्तलहट्टिकायाम् ॥ ९ ॥ ततः श्रीपत्तनतः प्रस्थानादनुक्रमेण, तस्याऽनेस्तलहट्टिकायां, 'भूयोभिर्बहुभिर्कषिभिर्वृतः श्रीमूरिः आगादित्यन्वयः। कैः कइव, तारोत्करैरिन्दुरिव, गुरुरिन्दुश्च कीदृशः, अतिसौम्या, पुनः,भासां भरैर इव, गुरुरकश्च कीदृशः, प्रतापी, इति समानधर्मोपमेति ॥९॥ दानैरमानैर्धनकाञ्चनानां गीतैः सुगीतैः कुलकामिनीनाम् । तूर्यैश्च वसुरजानकाद्यैः __ कुर्वद्भिरुत्साहकृदुत्सवालीम् ॥ १० ॥ मेवातसन्मालवमेदपाट
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy