SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । कियच्च महिमाऽमत्रं तत्र मित्रमहा महान् । सुखयन् जनतां वाग्भिरद्भिरब्द इवाऽवसत् ॥५३॥ 'च पुनः, तत्रं मेदिनीपुरे, महान् गुरुः, किं०, महिमाऽमत्रं माहात्म्याऽऽस्पदं, अद्भिः पानीयैः, अब्द इव मेघ इव, जनता जनसमूह, वाग्भिः सुखयन् सुखीकुर्वन् , अवसत्. तस्थौ ॥५३॥ मेदिनीपुरतः सूरिभैदिनीशनतस्ततः । खदिनीरुह इव व्यचरद् मेदिनीतले ॥ ५४ ।। मूरिः कि०, मेदिनीशा राजानो मेडतीआख्यास्तैनतः सन् ततो मेदिनीपुरतः वर्मेदिनीरुह इव कल्पतरुरिव, मेदिनीतले भूतले, व्यचरत् चचालेति । अत्र मेदिनीशब्दचतुष्टयाद्रुतम् ॥ ५४॥ क्रमेण क्रमविन्मुख्योऽतिक्रामन्नखिलामिलाम् । वर्यवर्णाटभावाटं वैराटं नगरं ययौ ॥ ५५ ॥ - क्रमविदां गुरुमार्गविदां ज्ञानविंदां मुख्यः, स गुरुः, क्रमणाऽखिलां इलांभूमि, अतिक्रामन् उल्लङ्घयन् , बैगटं नगरं, किं०, वर्या वर्णाटाश्चित्रकारिणः गायना वा, भावाटाः साधुनिवेशाः कामिनो वा यत्र तत् ।। ५५ ॥ तत्राऽथ श्रीतपागच्छनायकः शर्मदायकः । मौक्तिकैः काञ्चनैः पुष्पैः पूजितः श्रावकैबहु ॥५६॥ अथ तत्र श्रीतपागच्छनायकः श्रावकैः, मौक्तिकैः, पुनः, काश्वनैः पुष्पैः स्वर्णप्रभूनैः, पूजित इति ॥ ५६ ॥ संघः सर्वोऽपि तत्रयोऽतिमात्रां मुदमासदत् । दर्शनादृषिचन्द्रस्य चकोराणानिवोत्करः ॥५॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy