SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३.२५ विद्यमानोऽपि, जयो न वितीर्यते इति द्वितीयोऽन्वयः । किम्वित्युत्प्रेक्ष्यते, इत्युग्रचिन्तया चकितात्मनां आकुलीभूतानां, त्रिदिवौकसां देवानां दृशो नेत्राणि, निमेषान् जहुस्त्यजन्ति स्मेति ॥ ७ ॥ नवमः सर्गः 1 तुरङ्गलालापटलैः सुधोज्ज्वलैमैदैर्गजानां शितिभिश्च भूरिभिः । नभःसरित्सूर्यसुतासमागमा दिवाऽभवत् तीर्थमदः पताकिनी ॥ ८ ॥ तुरङ्गाणां अश्वानां लालापटलैः किं०, सुधोज्ज्वलैः पीयूषभैर्धवलैरिति, पुनः गजानां मदैः किं०, शितिभिः श्यामैः, नभःसरित्सूर्यसुतयोर्धवलाघवलयोर्गङ्गायमुनयोः समागमात् तुरङ्गलालारूपा गङ्गा गजमदरूपा यमुना तयोः संयोगात् ; अदः पताकिनी अस्याऽकब्बरस्य पताकिनी सेना, तीर्थमेवाऽभवत् ; यतः " गङ्गायमुनयोर्योगे महातीर्थमुदाहृतम् " इति पुराणवचनात् ॥ ८ ॥ यशो यदीयं कुमुदेन्दुसुन्दरं जगुस्तमामित्यहिराजयोषितः । धरन् धरां नः पतिखेदमुल्वणं जहार यः क्ष्माभरभारसंभवम् ॥ ९ ॥ " यस्याऽकब्बरस्य संबन्धि यदीयं यशः किं०, कुमुदेन्दुसुन्दरं कैरव कैरवबन्धुबन्धुरं, इति कारणात् अहिराजयोषितः शेषनागनार्यः, जगुस्तमां गायन्ति स्मेत्यन्वयः । इतीति कुत इत्याहयः शाहि, घरां भूमिं धरन् सन् नोऽस्माकं, पतिखेदं भर्तश्रमं किं०, क्ष्माया भरेणाऽतिशयेन यो भारस्तत्संभवं, जहार
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy