SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ विजयंत्रशस्त्याम् । तत्र सांसारिकस्तोमाऽऽग्रहेण कतिचिद् दिनान् । आसामास जगल्लोककोककोकसुहृत् प्रभुः ॥४५॥ तत्र नारदपुर्या, सांसारिकाणां संसारसंबन्धिनां कुटुम्बिनां स्तोमः समूहस्तस्याऽऽग्रहण, कतिचिद् दिनान् यावत् प्रभुः, किं०, जगल्लोका एव कोकाश्चक्रवाकास्तेषु कोकसुहृत् सूर्यस्तेषां दर्षहेतुत्वादिति, आसामास स्थित इति ।। ४५ ।। काञ्चनै राजतैरूपैः संघस्तत्रत्य आदरात् । श्री अनूचानमानर्च तीर्थनाथमिवाऽऽगतम् ॥४६॥ तत्रत्यः संघ आदराद् जन्मभूमित्वाद् विशेषेण, तीर्थनाथमागतमिव मन्वानः, श्री अनूचानं काञ्चनैः स्वर्णमयैः, राजतेरूपमयैः रूपैर्नाणकैः, यदनेकार्थ :- "रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये नाणके नाटकेऽपि च " इति । आनर्चेति पूजयामास ।। ४६ ।। , ४३२ गुरुः पौरमनः प्रीतिवल्लीपल्लवनाम्बुदः । संघमुल्लासयामास देशनासलिलैरलम् ॥ ४७ ॥ पौराणां नागराणां मनः प्रीतिवल्ल्याश्चित्तस्नेहलतायाः पल्लवनेऽम्बुदः, गुरुदेशनासलिलैः संघमुल्लासयामास सोल्लासं कृतवान् ॥ ४७ ॥ मूलादुन्मूलयन् मार्गतरूनिव कुवादिनः । व्यहार्षीत् पुरतस्तस्मादनूचानमतङ्गजः ॥ ४८ ॥ अनूचानमतङ्गजः सूरिसिन्धुरः, किं कुर्वन्, कुवादिनो मार्गतरूनिव मूलात् समूलं, उन्मूलयन् तस्मान्नारदपुरीपुरतः, व्यहार्षीत् ॥ ४८ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy