________________
१३५
तृतीयः सर्गः। सुखिनो व्यधुः, यया तोयवाहा मेघाः, तोयवर्षाद् वारिवर्षणादिति दृष्टान्तः ॥ ३९॥
सत्यं च धर्मश्च तपश्च नष्टा ___ अमी गुणा यत्कलिकालदोषात् । एतन्मयैर्यतिपैः स जहे
त्रयीमयेणात्र तमोऽशुनेव ॥ ४० ॥ सत्यं समीचीनवचनं, धर्मश्च क्षान्त्यादिर्दशविधो यतिधर्मः, तपश्च द्वादशधा, अमी त्रयो गुणाः कलिकालस्य दुःषमाकालस्य दोषानष्टा बभूवुः, स दोषः एतन्मयैः सत्यधर्मतपोमयैः, यैर्यतिपैर्मुनीन्द्रः, जहेऽहारि; अत्र प्राचुर्यार्थे मयत्प्रत्ययः। दृष्टान्तमाहयथा "त्रयीतेजोमयो भानुः" इति वचनात् त्रयीमयेण अंशुना सूर्येण, तमो ध्वान्तमिवेति ॥ ४०॥ प्रकाममेषां समतारसेन
सन्तोषिताऽशेषधरातलेन । चारित्रधर्मत्रिदशगुमो द्राक्
सिक्तः पुनः पल्लवभाग बभूव ॥ ४१ ॥ एषां गुरूणां परमगुरूणां, समतारसेन साम्यसलिलेन, किंलक्षणेन, सन्तोषितं सम्यक् तोषितं अशेष धरातलं भूतलं येन तेन सन्तोषिताशेषधरातलेन, सिक्तः सेचनविषयीकृतः, चारित्रधर्मत्रिदशद्रुमः सुविहितसाधुधर्मकल्पवृक्षः, पुनः पल्लवभाग बभूव, अन्तरा म्लानोऽपि पुनः पल्लवित इति ॥ ४१ ॥
तेपे तपो दुस्तपमस्तपापं ___षष्ठोष्टमाद्यं बहुधा बुधायैः ।