SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः । ६४१ गुरुत्तनगरमजानां पत्तनजनानां मुदे जज्ञे जात इत्यन्वयः, किंवत्, पयोदो मेघस्तद्वत्, यथा सारङ्गयातकस्तस्य सारङ्गदृशः स्त्रियस्तासां पुनः वारि कमलं तद्वत्, यथा सारङ्गो भ्रमरस्तस्य सारङ्गदृशां भ्रमरीणां, पुनः, विन्ध्याभिधानो भूमीधरो विन्ध्याचलस्तद्वत् यथा सारङ्गा हस्तिनस्तेषां सारङ्गदृशो हस्तिन्यस्तासाम्, अत्र सारङ्गशब्दानेकार्थो यथा “सारङ्गो विहगान्तरे चातके चश्चरीके च द्विपैणशबलेषु च " इति वचनादत्र सारङ्ग शब्दस्य त्रयोऽर्थाः समर्थिता इति ।। २५ ।। इतश्च - इतवेति संबन्धान्तरसूचकमव्ययम्, 1 यथा भट्टारक श्रीविजयादिसेनपट्टैकपाथोधिकलानिधीनाम् । पूर्वे पवित्रीकृतपत्तनानां तपागणाचार्य महीधनानाम् ॥ २६ ॥ विशुद्धसिद्धान्तसुधा पिबानां सुधापिबाऽऽचार्यधियां गुरूणाम् । उत्साहितश्चारुवचोविचारै वतैरिवाऽम्भोधर औत्तराहैः ॥ २७ ॥ निजं परित्यज्य मताधिपत्यं लुम्पाकमुख्यो मुनिमेघराजः । भट्टारकक्ष्मापमथो ववन्दे तत्पादयोर्मूलमुपायियासुः ॥ २८ ॥ त्रयाणां व्याख्या यथा - इतश्चावसरे तपागणस्य आचा ૧
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy