________________
६४०
विजयमशस्त्याम् । भक्त्येत्यभिष्टुत्य सदर्थसार्थ
श्रव्येण काव्यप्रकटाष्टकेन । श्रीहीरसूरीन्द्रपदौ मुनीन्दुः
कृती कृतार्थीकुरुते स्म जन्म ॥ २३ ॥ . इति अमुना काव्यप्रकटाऽष्टकेन, कि०, सदर्थसमूहैः श्रव्येण श्रवणीयेन, श्रीहीरविजयसूरिपदी अभिष्टुत्य स्तुत्वा, मुनीन्द्रः सं गुरुः, किं०, कृती दक्षः, जन्म कृतार्थीकुरुते स्म स्वावतारं सार्थकं कृतवानित्यर्थः ॥२३॥ पद्माभिरामामभितोऽभिसर्प
दुल्लोलकल्लोलितभूमिभागाम् । ततः प्रभुः पत्तनराजधानी .. मरालबालः सरसीमिवाऽऽगात् ॥ २४ ॥
ततो वटपल्लीतः, प्रभुर्गुरुः, सरसीं मरालबाल इव पत्तनराजधानीमागादित्यन्वयः, पत्तनराजधानी सरसीं च श्लेषण विशिनष्टि-कीदृशी, पद्माभिःश्रीभिः अभिरामां, पक्षे पद्मः कमलैरभिरामा रम्यां, पुनः किं०, अभितो विष्वक, अभिसर्पन्तो धावन्तो ये उल्लोला लहर्यस्तैः कल्लोलितो वीचीमयो भूमिभागो यत्र, पक्षे उत्पावल्येन लोल उत्सुकत्वाचापल्यभाक् कल्लोलितो हर्पितो भूमिभागो यस्यां ताम्, एतावता कलहंसः सर इव, गुरुः पत्तननगरं प्राप्त इति ॥ २४ ॥ पयोदवद् वारिजवच्च विन्ध्या
ऽभिधानभूमीधरवच्च जज्ञे । मुदे गुरुस्तन्नगरप्रजानां
सारङ्गसारङ्गशामिवोच्चैः ॥ २५ ॥