SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः ५४७ शाहिश्रीमदकब्बरावनिभुजः प्रोच्चैः प्रसादास्पदम् | तत्रासन्नधिकारिणोऽथ पुरि ये काजीहुसेनादयस्तेषां संगतमास्तिकैः प्रविदधे प्रौढिः प्रभोश्वोक्तिभिः ॥३॥ अथेति समये, तत्र पुरि राजनगरे, प्रत्यर्थिक्षितिपाला वैरिराजानस्तेषां पङ्कजदृशः स्त्रियस्तासां वैधव्यं विधवात्वं तस्य दीक्षागुरोर्वैरिनारीरण्डात्वमापकस्येति समस्तशत्रु संहारणादेवंभूतस्य, शाहिश्रीमदकब्बराऽवनिभुजोऽकब्वरनृपतेः प्रोच्चैः प्रसादास्पदं अधिकारिणो ये काजीहुसेनादय आसन् बभूवुः, तेषां संमतं प्रभोर्गुरोश्वोक्तिभिर्वाग्भिः, आस्तिकैः प्रौढिः उद्यमोऽर्थात्मकटीकरणरूपः, प्रविदधे निर्मितेति ॥ ३ ॥ आरोग्यं बहुलं सुभिक्षमतुलं क्षेमं च राज्ञः सुखं ज्ञात्वा गूर्जरमण्डलस्य नगरग्रामादिषु प्रत्यहम् | दत्त्वाऽब्दे युगपत्रिपार्थिवमिते यः स्वप्नमस्वमराट् पूज्यः प्रादुरभूद् मनोरथवनीविस्तारधाराधरः ॥ ४ ॥ 2 गूर्जरमण्डलस्य नगर ग्रामादिषु प्रत्यहं अहर्निशं आरोग्यं नीरोगित्वं, बहुलं, च पुनः, सुभिक्षं, अत एवाऽतुलं क्षेमं, चः पुनरर्थे, तेन राज्ञः सुखं ज्ञात्वा युगानि चत्वारि, पत्रिणो वाणाः पञ्च, पार्थिवाः षोडश इति वामगतिगणितैरङ्गैः १६५४ मितेऽन्दे वर्षे, शिष्टपुंसां स्वमं दत्त्वा अस्वमराडिन्द्रस्तत्पूज्यः, पुनः किं०, मनोरथवनीनां विस्तारे धाराधरो मेघः श्रीपार्श्वः प्रादुरभूत प्रकटीभूवेति ॥ ४ ॥ एतद्राज्यमकार्यपङ्कजवनव्रातैकचन्द्रातपः स्फूर्जद् मन्महिमेव भूरि भविता स्थैर्यस्थितेरास्पदम् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy