SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । इत्युच्चैरचलासु सूचनचणश्चिन्तामणिः श्रीजिनः पार्श्वः प्रादुरभूत् प्रभावभवनं राज्येऽत्र यस्य प्रभोः ||५| . अत्र नगरे, यस्य प्रभोर्गुरोः, राज्ये श्रीचिन्तामणिः पार्श्वजिनः किं०, प्रभावस्य प्रतापस्य भवनं गृहं, प्रादुरभूत्, कथं ०, अचलासु भूमिषु, इति सूचनचणः वक्ष्यमाणसूचकः, इतीति किं एतद्राज्यं मन्महिमेव स्फूर्जत्स्थैर्यस्थितेरास्पदं भूरि भविता, कीदृशं, अकार्यमेव पङ्कजवनं तदवाते चन्द्रातपः, यथा चन्द्रातपेन पङ्कजवनं संकुचति तथैतद्राज्येऽकार्यमिति ॥ ५ ॥ ५४८ चाहो विहगोऽब्जिनीपतिमिवोल्लासं सृजन्तं दृशां विश्वानन्दिनमौष प्रणयिनं पूर्ण चकोरो यथा । यद् वारिदमञ्जनालिफलिनीश्यामं शिखण्डी शिशुः पार्श्व प्रेक्ष्य जनस्तथात्र समभूच्चिन्तामणि मुन्मयः ॥ ६॥ " अत्र नगरे, जनश्चिन्तामणि पार्श्व प्रेक्ष्य तथा मुन्मयो हर्षितः, समभूत्, कथमित्याह-यथा चक्राद्दो विहगचक्रवाकः, अब्जिनीपति सूर्यमित्र, पुनः, प्रेक्षकाणां दृशां उल्लासं सृजन्तं, अत एव विश्वानन्दिनं, पुनः, पूर्ण, औषधीप्रणयिनं चन्द्रं, चकोर इव, पुनः, अञ्जनालिफलिनीश्यामं कज्जल भ्रमर मियश्यामलं, वारिदं मेयं, शिखण्डी शिशुर्मयूराक इव, एतानेते दृष्ट्रा यथा हर्षुला भवन्ति तथा तं भगवन्तं निभालय भव्यजनः प्रमुदितोऽभूदिति ॥ ६ ॥ स्वस्मिन् स्वान्त इवाश्वसेनतनयं संघोऽनघोऽतिष्ठिपत् तं तीर्थाधिपतिं सिकन्दरपुरे प्राज्यैरतुच्छात्सवैः । तस्यासीद् महिमा महान् पुरवरे तस्मिन् प्रभोस्तस्थुषः प्रातस्येव घनात्यये दिनपतेः स्फातिस्त्विषां भयसी ॥७॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy