________________
द्वादशः सर्गः ।
४५७
जैना अनभिड़ा मूढाः, परमेश्वरं न मन्यन्त इत्यन्वयः । परमेश्वरं किंविशिष्टमित्याह-निर्गतं अञ्जनं लेपनं प्रसङ्गात् कर्मणां यस्मात् तं निरञ्जनं, पुनः किं०, निराकारं आकारो हस्तपादायवयवरचनारूपस्तेन रहितं पुनः किं०, निर्विकारं विकारो दुष्पमानसिकादिस्तद्रिक्तं, पुनः किं०, निरंहसं निष्पापं पुनः किं०, निराधारं आधारः परकायाश्रयस्तेन रहितं पुनः किं०, निराबाधं आबाधा रागद्वेष कषायरूपा, अथवा शरीरमानसपीडा तया रहितं, पुनः किं०, नीरागं यत एव निराबाधं तत एव नीरागं, पुनः किं०, निष्परिग्रहं परिग्रहो बाह्याऽऽन्तरभतिबन्धस्तद्रहितं, अत एव पापपुञ्जस्य हर्तारं च पुनः सुखश्रियः कर्तारं ईदृशं जगत्कर्तारं न जैना मन्यन्त इति ।। इति युग्मव्याख्यानम् ॥ ।। १४२ ।। १४३ ॥
परमेश्वरं न मन्यन्त एतावता किमित्याह - जगन्मूलं न मन्यन्ते ये मूढाः परमेश्वरम् । तेषां पन्थाः वृथाऽङ्केन विना बिन्दुरिव धुवम् ॥ १४४॥
ये मूढा अज्ञानिनो जगन्मूलं जगज्जनकं, परमेश्वरं जगदीश्वरं, न मन्यन्तेः तेषां पन्थाः पुण्याचरणरूपो मार्गः, वृथा किञ्चित्कर इति, यतो जगदीश्वरसत्ताव्यतिरेकेण ते यत्किञ्चित् सुकृताचरणं कुर्वन्ति, तत् तेषां निष्फलमेव, यथा अङ्केन विना बिन्दुर्नाऽभीष्ट संख्यापूरकः स्यादिति दृष्टान्तः ॥ १४४ ॥
तेन शाहिसभाभानो ! त्वादृशामवनीभुजाम् । नैतेषां दर्शनं श्रेयः स्त्रीणामृतुभृतामिव ॥ १४५ ॥
हे शाहिसभाभानो ! तेन प्राक्प्रणीतेन हेतुना, त्वादृशां अवनीभुजां भवादृशां राज्ञां, न एतेषां जैनानां, दर्शनं श्रेयः प्र
५९