________________
४५०
विनयप्रशस्त्याम् । शरसं, यथा ऋतुशृतां स्त्रीणां, दर्शनमश्लाघीयत्तथा तवाऽप्यमीपां दर्शनमनहमिति भावः ॥ १४५ ॥
अज्वलद् भूपकोपाग्निरिति तद्वचनेन्धनैः ।। यत् पार्श्वरूपभाग राज्ञां हृत् स्यादच्छ इव ध्रुवम्॥१४६॥
इति प्रोक्ततद्वचनेन्धनैः भूपस्य शाहेः कोपाग्निः, अज्वलद् 'जज्वालेति । यदिति हेतोः, राज्ञां हृच्चेतः, पार्श्वरूपभाक् पार्श्ववर्ति यद्रूपं तद्भजतीति पार्श्वरूपभाक्, क इवेत्याह-अच्छ इव स्फटिकरत्नभिवेति ॥ १४६ ॥
और्वमग्निमिवाऽम्भोधिभूपोऽन्तः कोपमुद्वहन् । प्रस्तावेऽथ समायातानूचेऽनूचानपुङ्गवान् ॥ १४७ ॥
अथेति प्रस्तावे, भूपः, अन्तः कोपं उद्वहन् समायातान् अनूचानपुङ्गवान् ऊचे प्रोक्तवानिति, यथा अम्भोधिः समुद्रः, और्वमग्निं वडवानलं, प्रच्छन्नं वहति तथा गुप्तक्रोधं वहन् भूपः सूरीन् समये समायातान् प्रोवाचेति ॥ १४७॥ बाह्यक्रियाकलापेन व्यसका विश्वभूस्पृशाम् । अमी नैव महात्मानो मन्यन्ते परमेश्वरम् ॥ १४८ ॥ क्षारादिव सिचस्तैलमालिन्यं मम मानसात् । शङ्का प्रयातु प्रलयं गुरो ! त्वद्वचनादियम् ॥१४९॥
बाह्या लोकप्रत्ययोत्पादिनी न तु मनःशुद्धिविधायिनी या क्रिया तस्याः कलापेन, विश्वभूस्पृशां समस्तप्राणिनां, व्यंसका विप्रतारकाः, अमी महात्मान औज्वलिकाः; नाम्नेव महात्मानः, परमेश्वरं नैव मन्यन्ते ॥ १४८ ॥ हे गुरो ! इयं विटत्योक्ता, शक्षा मम मानसात् त्वद्वचनात् प्रलयं नाशं प्रयातु, यथाक्षारात् क्षारसंपर्कात् , सिचस्तैलमालिन्यं वस्त्रस्य तैलच्छटोत्पन्नं मलिनत्वं, प्रयातीति ॥ इति युग्मव्याख्या ॥ १४९ ॥