SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। २३९ अवापुरित्यन्वयः। दृष्टान्तमाह-इव यथा, अखिलाभिः कलाभिः सकलाभिः कलाभिः, पूर्णमुषाधिनाथं चन्द्रं, निरीक्ष्य पयोधिनितम्बिनीनां नदीनां, प्रभोः पत्युः समुद्रस्य, आपः पयांसि, मुदं प्राप्नुवन्तीत्यर्थः ॥ २१ ॥ रेजे धियां निधिरयं नितमां गुरूणां पार्श्वे प्रसन्नमतिलक्ष्मिजुषाममीषाम् । पीयूषभुगवसुमतीभृदुपत्यकायां । ___ दौस्थ्यच्छिदङ्कर इव त्रिदिवद्रुमाणाम् ॥२२॥ प्रसन्नमतिलक्ष्मिजुषां सद्बुद्धिसंपद्वतां, अमीषां गुरूणां, पार्थेऽयं शिष्यः, किं०, धियां निधिः, अत एव रेजे सदृशसंयोगेनाऽराजतेत्यन्वयः । क इव केत्याह-पीयूषभुजो देवास्तेषां वसुमतीभृत् पर्वतो मेरुस्तस्य या उपत्यका ऊर्श्वभूमिस्तस्यां, त्रिदिवद्रुमाणां कल्पवृक्षाणां, अङ्कुर इव, कीदृशः, दौस्थ्यच्छित् दारिद्यभेत्तेति ॥ २२ ॥ वात्सल्यवत्यजनि चात्र विनेयरत्ने सर्वत्र सन्निभदृशामपि दृग् गुरूणाम् । भागेऽतिनिम्न इह वारिधिमेखलायाः संस्थायिनी भवति वृष्टिरिवाम्बुदानाम्॥२३॥ ' सर्वत्र सनिभदृशामपि गुरूणां दृग् दृष्टिः, अत्र विनेयरत्ने, वात्सल्यवती वत्सला, अजनि जातेत्यन्वयः। वारिधिमेखलायाः पृथिव्याः, भागे, किं०, अतिनिम्ने गभीरे, यथा अम्बुदानां मेघानां, वृष्टिः संस्थायिनी स्थास्नुशीला भवति तथेयं गुरुदृष्टिरिति दृष्टान्तः ॥ २३ ॥ गुर्वहियुग्मसरसीरुहराजहंसः
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy