SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ विजयप्रसस्त्वाम् । प्रावीण्यपेशलमनाः प्रमनाः प्रकुर्वन् । नित्याङ्गमण्डनमयं विनयं विनेयः । श्रीधाम वाङ्मयमयं भणति स्म भूरि ॥२४॥ गुरूणां यद् अंहियुग्मं क्रमयमलं तदेव सरसीरुहं तत्र राजहंसः, पुनः, प्रावीण्यं चातुर्य तत्र तेन वा पेशलं रम्यं दक्षं वा मनो यस्य सः, पुनः, प्रमनाः प्रचेताः सन् , प्रकुर्वन् , के विनयं, किं०, नित्याङ्गमण्डनमयं निरन्तरागभूषणप्रधान, अयं विनयः कि०, श्रीधाम, वामयमग्रेतनसर्गवक्ष्यमाणलक्षणं, भ. णति स्म, भूरि क्रियाविशेषणं, अथवा वाङ्मयस्यैव विशेषणं; अत्र जातावेकवचनं ज्ञेयम् ॥ २४ ॥ श्रीसङ्घनीरनिधिवृद्धिविधानसज्ज स्तन्वन् गुरोर्मनसि तुष्टिमयं विनेयः । पक्षे वलक्ष उडुराज इवातिकान्ति वृद्धि क्रमेण कलयन् शुशुभे शुभश्रीः ॥२५॥ अयं विनेयः वलक्षे शुक्ल पक्षे, उडुराज इव चन्द्रवद्, वृद्धि कलयन् शुशुभे शोभते स्मेत्यन्वयः । किं०, अतिशयेन कान्तिर्यस्य सः, पुनः, श्रीसङ्घ एव नीरनिधिस्तस्य वृद्धिविधाने सज्जः पटुः, पुनः, गुरोः श्रीहीरविजयसूरेः, मनास तुष्टिं तन्वन्, चन्द्रपक्षे गुरोबृहस्पतेर्मनसि तुष्टिं तन्वन् , चन्द्रो हि गुरोमित्रमिति ज्योतिर्विदां मतं, यदुक्तम्--"जीवस्यार्कात् त्रयो मित्राणि" इति वचनात् ॥ २५ ॥ नित्योन्नतैः सपदि भाविसमुन्नतिश्रीः प्रौढासनस्त्वरितभाविमहासनश्च ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy