SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। २४१ सूरीन्द्रहीरविजयैः सममेष यूथ नाथेन पोत इव शिष्यवरो व्यहार्षीत् ॥२६॥ सूरीन्द्रहीरविजयैः समं एष शिष्यवरो व्यहार्षीदित्यन्वयः। क इव केनेत्याह-यूथनाथेन गजेन्द्रेण सह, “पोतस्तु दशवार्षिक:" इति वचनात् पोतो गजवाल इवेति दृष्टान्तः । सूरीन्द्रहीरविजयैः किं०, नित्योन्नतैः सदोदयवद्भिः, शिष्यवरः किं०, सपदि शीघ्रं भाविनी समुन्नतिश्रीरुन्नतिलक्ष्मीः मूरिपदवीरूपा यस्य सः, पोतपक्षे सपदि भाविनी समुन्नतिश्रीः प्रोच्चत्वलक्षणा यस्य सः, पुनः सूरीन्द्रः किं०, प्रौढं महद् आसनं गच्छैश्वर्यलक्षणं येषां तैः, शिष्यः किं०, त्वरितं भावि महासनं गुर्वासनाध्यासनरूपं यस्य सः, गजपोतपक्षे भावि महासनं हस्तिस्कन्धलक्षणं यस्य सः, “आसनं विष्टरे हस्तिस्कन्धे" इत्यनेकार्थत्वात् । अत्र तृतीयान्ते गुरुविशेषणे, प्रथमान्ते च शिष्यविशेषणे इति ॥ २६ ॥ अथ श्रीविजयदानसूरिनिर्वाणखरूपं पाहअस्मिन्नथाऽवसर इसमृद्धिभाज स्तेजखिनो विजयदानमुनीन्द्रचन्द्राः । स्तोमैगवां कुवलयं प्रतिबोधयन्तः प्रापुः क्रमेण वटपल्लिपुरी प्रसिद्धाम्॥ २७ ॥ . अत्यधिकारान्तरे, अस्मिन्नवसरे श्रीविजयदानमुनीन्द्रचन्द्राः, किं०, इद्धसमृद्धिमाजो दीप्तर्द्धिमन्तः, पुनः किं०, तेजस्विनः, पुनः किं कुर्वन्तः, प्रतिबोधयन्तः, किं०, कुवलयं, गुरुपक्षे भूवलयं, चन्द्रपक्षे चोत्पलं, कैः, गवां वाचां किरणानां च स्तोमैन्दैः, क्रमेण वटपल्लिपुरी पत्तनपरिसरस्था, मापुः सं.
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy