SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १४२ . विभक्तस्त्वाम् । . प्राप्ता इति ॥ २७॥ तत्र ते किं चकुरित्याह'मत्वा स्वमन्तसमयं समयज्ञसूरि सिंहा महाव्रतगृहोपरि वैजयन्तीम् । . आराधनां विदधिरे जिनसिद्धसाधु देवात्मसाक्षिकमघौघविघातिनी ते ॥ २८ ॥ खं अन्तसमयं मत्वा ते समयज्ञमूरिसिंहाः समयज्ञाअवसरज्ञा आगमज्ञा वा ते च ते मूरिसिंहाश्वेति कर्मधारयः, महाव्रतगृहोपरि संयमवेश्मशृङ्गे, वैजयन्ती ध्वजतुल्यां, पुनः, अघौघविघातिनी पापव्यापविनाशिनी, आराधनां व्रताद्यतिचारालोचनारूपां, विदधिरे चक्रुः, कयं, जिनसिद्धसाधुदेवात्मानः अर्हत्सिद्धसंयमिसम्यग्दृष्टिसुरजीवाः साक्षिणो यत्र तजिनसिद्धसाधुदेवात्मसाक्षिकमिति क्रियाविशेषणम् ।। २८ ॥ श्रीविक्रमार्कधरणीधवतः पयोधि वस्त्राविलोचनरसद्विजराण्मितेऽब्दे । वैशाखमासि तुहिनविषिशोभनायां तिथ्यां च पङ्करुहिणीपतिसंमितायाम् ॥२९॥ श्रीविक्रमार्कधरणीधवतो विक्रमादित्यनरेन्द्रात् , पयोधिवस्खा पृथिवी एका, तेन एकाङ्कः, विलोचने नेत्रे दे, तेन यङ्कः, रसाः षद्, तेन षडङ्कः, द्विजराद चन्द्र एकः, तेन एकाङ्कः, एतैमिगतिमीलितैः १६२१ मितेऽब्दे वर्षे, पुनः, वैशाखमासि राधाभिधमासे, पुनः, तिथ्यां, किं०, पङ्करुहिणीपतयः पद्मिनीपाणनायाः सूर्याः, ते च लौकिकसमयानुसारेण द्वादशोच्यन्ते, वैषां च द्वादशसंख्यावाचकाः पुराणगताः श्लोका यथा
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy