SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ___ः सर्गः। अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा। चैत्रे मासे तु सविता भानुर्वैशाखमासि च ॥१॥ ज्येष्ठमासे तु मार्तण्ड आषाढे तपते रविः । गभस्तिः श्रावणे मासि तथा भाद्रपदे भगः ॥२॥ आदित्यश्चाऽऽश्विने मासे कार्तिके तु दिवाकरः। मार्गशीर्षे तपेद् मित्रः पौषे मासि सहस्ररुक्॥३॥ इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्तिताः । नित्यं द्वादशमासेषु तपन्ते द्वादशाऽप्यमी ॥४॥ इति लौकिकग्रन्थानुसारेण द्वादशसूर्याः, तेन सूर्यसंमितायां द्वादशीतिथ्यां, किं०, तुहिनत्विषिश्चन्द्रस्तेन शोभनायां, शुक्लायामिति गम्यम् ॥ २९॥ स्मृत्वा चतुःशरणमुत्तममर्हदाद्यं कृत्वा तथाऽनशनमस्तसमस्तदोषम् । ते सूरयोऽथ सुरवामविलोचनाना मातिथ्यमस्तकलुषाः कलयाम्बभूवुः ॥३०॥ उत्तमं अहंदाचं चतुःशरणं स्मृत्वा ध्यात्वा, पुनः, कृत्वा विधाय, अस्तसमस्तदोषं निर्दोष, अनशनं चतुराहारनिषेधरूपं, नियमविशेषं, अत एव ते सूरयः किं०, अस्तकलुषा गतपापाः, सुरवामविलोचनानां देवाङ्गनानां, आतिथ्यं कलयाम्बभूवुर्दिवं गतवन्त इति भावः। श्रीविजयदानसूरीणां सं० १६२१ वर्षे वेशाखशुक्लद्वादश्यां वटपल्ल्यां स्वर्गमनं जातमिति ॥ ३० ॥ - तद्भक्तिभावितमनाः सकलोऽथ सङ्घः स्तूपं व्यधत्त पुरि तत्र मनोज्ञमुच्चैः। . यद् वन्दितं स्मृतमुदीक्षितमर्चितं च
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy