SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। ७९ क्रीडा, अर्थानागरनागरीमण्डितताण्डवमयी, तया कौतुककेल्या, कान्ते कमनीये ॥ ३९ ॥ सकुङ्कुमैर्बन्धुरगन्धगन्ध सारद्रवैय॑स्तसुशस्तहस्तैः। तन्मन्दिरं सेन्दिरमस्त्यनेक रूपैरुपेतैरिव भानुबिम्बैः॥४०॥ सकुड्डमैयुंमृणमिश्रितैः, बन्धुरो मनोझोात् सुरभिरिति, सचाऽसौ गन्धो घ्राणग्राह्यो गुणो यस्याऽसौ गन्धसारश्चन्दनं, तस्य द्रनै रसैः, न्यस्ताः स्थापिताः, सुष्ठु अतिशयेन शस्ताः प्रशस्ताः, ये हस्ताः पञ्चाङ्गुलीगभिंतचपेटाकारा मागल्यविशेषाः स्थासकाः इति तैः। तस्य श्रेष्ठिनो मन्दिरं सदनं । कीदृशं सेन्दिरं सश्रीक, तदानीमस्तीति शेषः। इवेत्याशङ्कते, भानुबिम्बैर्मार्तण्डमण्डलैः किं. उपेतैः समागतैः, पुनः कीदृशैः अनेकरूपैर्बहुरूपधारकरिति अत्र कथञ्चिद् वर्णाकारयो साधर्ष्या हस्तकानां गभस्त्युपमानम् ॥ ४०॥ आनन्दिबन्दिध्वनिबन्धुरे तद् द्वारे विरेने सहकारपत्रैः। विनिर्मिता मङ्गलतोरणालि रिष्येण किं प्रैषि निजढिरेषा ॥४१॥ आनन्दिनो हर्म्युला वित्तवितरणादिना तुष्या, ये बन्दिनी मङ्गलपाठकास्तेषां ध्वनिभिर्नादैर्वन्धुरे तद्वारे, सहकारपत्रैरानदलैः,विनिर्मिता विरविता, मालतोरणालिमङ्गलार्थ तोरणश्रेणिः, विरेजे शुशुभे । किमित्युत्प्रेक्ष्यते इष्येण वसन्तर्तुना, निजर्दिः खसम्पत्तिः, मैपि महितेति ॥४१॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy