SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ ६८४ विजयप्रशस्त्याम् । आगाद् गुरुरथो राजनगरे श्रीगरीयांस ॥ ३६ ॥ अथो गुरुः, किं०, श्रीमान् यो विजयदेवाहः मरीन्द्रः स्वपट्टभृत् तदादिः परिच्छदो यस्य सः, आदिशब्दाद्वाचकपण्डितादिग्रहः, राजनगरेऽहम्मदावादे, किं०, श्रीगरीयसि लक्ष्मीमहीयसि, आगात् प्राप्तवानिति ।। ३६ ॥ समुज्ज्वलकलाशालिसरिराजविलोकनात् । आसन्नुल्लासिनः सर्वे सागरा इव नागराः ॥ ३७ ॥ ' समुज्ज्वलाभिः कलाभिः शाली यः मूरिराजः मूरिचन्द्रस्तस्य विलोकनात् , नागरा नगरवासिलोकाः, सागरा इव उल्लासिनः आसन् जाता इति ॥ ३७॥ तत्रासीने चतुर्मासी श्रीभट्टारकभास्करे । पद्मोल्लासा अजायन्त सदालिप्रीतिहेतवः ॥ ३८ ॥ श्रीभट्टारकभास्करे सूरीश्वरसूर्ये, तत्र राजनगरे, चतुर्मासीमासीने सति, पद्माया लक्ष्म्याः , पक्षे पद्मानां पङ्कजानामुल्लासाः पद्मोल्लासाः, द्वयेऽपि किं०, सदालीनां सज्जनश्रेणीनां, पक्षे सदा नित्यम् , अलीनां भ्रमराणां प्रीतिहेतवः, अजायन्त जाताइति ॥ ३८ ॥ इतश्च सङ्घमध्ये यो विरोधो द्वादशाऽऽब्दिकः । भत शक्योऽभवत् केनाप्यधिपेनापि न क्वचित् ॥३९॥ स गुरोर्गुणसंभारभ्राजिनो वचसा क्षणात् । अभज्यततमा सामजन्मना भूमिजन्मवत् ॥ ४०॥ इतः पुरा ज्ञातिवेधरूपो द्वादशाऽऽब्दिको द्वादशवर्षीयो विरोधः सङ्घमध्येऽभूत् , यः केनापि अधिपेनापि मी-श्रीसमस्तिसंज्ञकोम्बरादिनापि, भक्तुं. निवर्तयितुं, शक्यो नाभूद् न
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy