________________
२९४
विजयप्रशस्त्याम् ।
गच्छेशमूध्नह रुचां पदं बभौ । सद्यः कलाभिः सकलाभिराश्रितः
सदाऽभवद् यत्तमसां विनाशकृत् ॥ ८७ ॥ असौ युवराजचन्द्रमा नवीनो गच्छेशमूर्ध्नि बभौ, किं०, रुचां पदं ज्योतिर्गृहम् | नवीनत्वमेवाह - यत् कारणात् सकलाभिः कलाभिः सद्य एवाश्रित इति नूतनत्वम्; पुनः सदा तमसां विनाशकृत् अभवत् । चन्द्रमास्तु सद्यः सकलकलाभृन्न स्यात्, पुनः, सदा तमसां अन्धकाराणां विनाशकृन्न स्यादिति नूतनत्वम् ।। ८७ ।।
द्राग् राजसंपद् युवराजि संक्रम चन्द्रस्य मूर्त्तिर्जलधाविवागमत् । चित्रं न चापल्यमिताऽस्ति यद्गता
नचापि दोषोदयकृत्कदाऽप्यभूत् ॥ ८८ ॥ अस्मिन् युवराज द्राग् शीघ्रं, राजसंपत् श्रीहीरविजयसूरिराज्यश्रीः, जलधौ चन्द्रस्य मूर्त्तिरिव संक्रमं अगमत् संक्रान्तेत्यन्वयः । इदं चित्रमस्ति, इदमिति किं तदेवाह--यद्वता युवराज गता, संपत् चापल्यं चपलत्वं, न इताऽस्ति, स्थिराऽभूदितिः च पुनः कदापि दोषोदयकृत् नाभूत् गुणाभाववती न जाता, चन्द्रमूर्त्तिस्तु जले संक्रान्ता सती चापल्यमायाति दोषोदयो रात्रेरुदयस्तमपि कुरुते इति चित्रम् ॥ ८८ ॥ विनयनयविराजत् केसरस्तोमरम्ये कुमतिमतमतङ्गध्वंसधीरेऽतिवीरे ।
श्रितवति शुभशोभां श्रीअनूचानपञ्चा नन इह बहु रेजे श्रीतपागच्छकुञ्जः ॥८९॥