SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः । २९५ इह श्रीअनूचानपञ्चानने आचार्यकेसरिणि, किं० विनयनयावेव विराजन्तौ यौ केसरस्तोमो स्कन्धजटाकलापों, ताभ्यां रम्ये, पुनः किं०, कुमतिमतरूपो यो मतङ्गो गजस्तस्य ध्वंसो नाशस्तत्र धीरे धैर्यवति निपुणे वा, अत्र मातङ्गान्मतङ्गशब्दोऽप्यस्ति । यच्छब्दप्रभेदः --" गजे मतङ्गमातङ्गौ ” इति । अत एवाऽतिवीरेऽतिश्रेष्ठेऽतिशूरे वा ईदृशे श्रीअनूचानपञ्चानने शुभशोभां श्रितवति सति शोभमाने सति, श्रीतपागच्छ एव कुञ्जो विविधवृक्षलतागुल्मादिवृतान्तरस्थानविशेषो निकुञ्ज इति बहु रेजे भृशमशोभिष्टेत्यर्थः ॥ ८९ ॥ अस्मिन् सर्गे इन्द्रवंशावंशस्थयोर्द्वयोश्छन्दसोर्मिलनरूपीपजातिकं छन्द इति; उपजातिलक्षणं तु पूर्वमभिहितमस्ति; सर्गान्त्यंवृत्ते तु मालिनीवृत्तं; तल्लक्षणमप्युक्तपूर्वमिति । इतीति भव्यम् ! इति सकलसुविहितसभासार्वभौमसमान पण्डितमण्डलीमौलिमाँलीयमानपण्डितश्रीकमलविजयगणिशिष्य मुख्यपण्डितपुरन्दरमख्यपण्डित श्रीविद्याविजयगणिविनेयवाचक श्रीगुणविजयगणिविरचितायां विजयमदीपिकाऽभिधानधारिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां सप्तमः सर्गोऽर्थतः समर्थितः ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy