________________
वतीयः सर्गः। शीलेन यैर्जह्वसुतासुतोऽत्र । यतो यमध्वंसिनि बद्धरागो
बभार यस्तारकवैरितां च ॥ ५२ ॥ ब्रह्मचार्यपि जसुताया गङ्गायाः सुतो गारयः, शीलेन ब्रह्मचर्येण यैर्गुरुभिः तुल्यो नाजनिष्ट न जातवानिति । कथं न जात इति तनिमित्तमेवाह-यतो हेतोर्यो गाङ्गेयः यमध्वंसिनि हरे बद्धरागः, वर्तत इति शेषः । गुरुस्तु यमध्वंसिनि पञ्चमहाव्रतलोपिनि वद्धरागो नेति, च पुनः, यःतारकेण दैत्येन वैरितां बभार, गुरुस्तु तारकाः संसारसागरतारका अर्थात्तीर्थङ्करादयस्तैः सह वैरितां न दधाति तदाराधकत्वादिति ॥५२॥ येषां मुखाम्भोरुहमडुताय
बभूव भूयो विदुषां न केषाम् । यत् पश्यतामेव जगज्जनाना
मामोदमक्षणोः प्रददे प्रकामम् ॥ ५३ ॥ येषां गुरूणां, मुखाम्भोरुहं. वदनकमलं, केषां विदुषां पण्डितानां, नाद्भुतायाभूत् ; अपि तु सर्वेषामिति । तद्धेतुमेवाह-यतः पश्यतामेव जगजनानां विश्वलोकानां, अक्ष्णोर्नेत्रयोः, प्रकाममतिमात्रं, आमोदं हर्ष गन्धं च प्रददे ददौ, अन्यत्तु कमलं घ्राणस्य गन्धं दत्ते, न नेत्रयोरित्यद्भुतहेतुः ॥ ५३॥ येषां गतौ सङ्गतकौशलायां
केषां मनः कौतुकमाप नेति । गजोक्षहंसा गतिपण्डितले.