SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् | धर्मस्य भेदा इव दानमुख्याः ॥ १८ ॥ ते चत्वारः पूर्वोक्तनामानः कीदृशाः, आविष्कृतः प्रकटितो मुक्तिमार्गो यैस्तेः पुनः किं०, सर्वसङ्घस्य चतुर्विधश्रमणसङ्घस्य दृढां निविडोऽनुरागो येषु ते सर्वसङ्घस्य दृढानुरागाः । ततस्तस्मात्मृरेः, गणाधिनाथा आचार्य पदवीं प्राप्ताः सन्तः, विभान्ति स्म शुशुभिरे । इवोत्प्रेक्ष्यते - दानं मुख्यं प्रथमं येषु येषां वा ते दानशीलतपोभावाख्याः धर्मस्य भेदाः प्रकारा इति ॥ १८ ॥ एभिश्चतुर्भिः सततावदातैदन्तैश्चतुर्दन्त इवाहितमैः । गच्छाधिराजैर्बिभरांबभूव माहात्म्यमुच्चैर्भुवि सङ्घ एषः ॥ १९ ॥ १२४ , एभिर्नागेन्द्रादिभिश्चतुर्भिर्गच्छयाधिराजैः सूरिवरैः, चतुर्दन्त ऐरावणः, इव यथा, चतुर्भिर्दन्तैः कीदृशैः सततमवदातैः कर्मम लहीनः, पक्षे नित्योज्ज्वलैः पुनः किं०, अहितमशुभकर्मादि, पक्षे अहितान् शत्रून् न्तीति अहितघ्नास्तैः अहितन्नैः; एष सङ्घां माहात्म्यं महत्त्वं बिभरांबभूवातिशयेन बभार ॥ १९ ॥ एतैश्च शिष्यैर्गुरुणा च तेनेत्येभिर्बभौ पञ्चभिरेष संघः । छायाऽऽव्यमूलैः सुकृतानुकूलैरखप्नसालैरिव मेरुशैलः ॥ २० ॥ च पुनः, एतैश्चतुर्भिः शिष्यैः च पुन:, तेन गुरुणा इति एभिः पञ्चभिर्मिलितैः सद्भिरेष सङ्घः साधुसाध्वीश्रावकश्राविकारूपश्चतुर्विधः श्रमण भगवन्महावीरस हुन्घः, बभौ शुशुभे ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy