________________
तृतीयः सर्गः । दृष्टान्तोऽत्र-यथा - मेरुशैलोऽखमसालैः कल्पवृक्षः कविरूढ्या पश्चभिः कल्पपारिजातमन्दारहरिचन्दनसन्तानैः, किंलक्षणैरिति द्वयोः पञ्चकयोः श्लेषद्वारा तुल्यं विशेषणद्वयमाह-छायया शोभया, पक्षे छाययाऽनातपेन, आढ्यं मूलं पार्थ येषां तेश्छायाऽऽन्यमूलः, पुनः कि०, सुकृतात् पुण्यात् अनुकूलैः प्राणिनामिति सुकृतानुकूलैरिति ॥२०॥ अथ चतुर्वपि कुलेषु चान्द्रकुलस्य मुख्यत्वमाहस्वतेजसा धौतदिगन्तरालं
गवां गणैः प्रीणितकौशिकौघम् । चान्द्रं कुलं तेष्वधिकं बभासे
कामोत्सवं भेष्विव बिम्बमिन्दोः ॥ २१ ॥ तेषु चतुर्पु पूर्वोदिताभिधानेषु कुलेषु, चन्द्राचार्यसंबन्धि चान्द्रं, कुलं द्वितीयं कुलं, अधिकं बभासेऽशुभत् । दृष्टान्तमाहयथा भेषु नक्षत्रेषु, इन्दोश्चन्द्रस्य बिम्बं मण्डलम् । अथ द्वयोः श्लेषद्वारंण तुल्यविशेषणान्याह-कीदृशं, स्वतेजसा निजमहसा, धौतं क्षालितं, दिगन्तरालं आशामध्यं येन तत् पुनः किं०, गवां वाचां रुचां च गणैः सङ्घातैः, प्रीणित आह्लादितः, "कौशिकः शक्रघूकयोः" इत्यनेकार्थत्वात् कौशिकानां शक्राणां घूकानां च ओघो येन तत् पुनः किं०, कामोत्सवं कामं प्रकामं कामस्य च कन्दर्पस्य उत्सवो यस्मात्तत् ॥ २१ ॥
आसन् जगच्चन्द्रमुनीन्द्रमुख्या
स्तेषु क्रमाञ्चन्द्रकुलाब्धिचन्द्राः। यैर्भारतं क्षेत्रमभूदपङ्क
द्राक् कातकक्षोदलवैरिवाम्भः ॥ २२ ॥