SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ मशस्तिः । अनुचक्रुः प्रमाणेन तार काम्बरसागरान् ॥ गुणानां स्पर्धया येषां दोषा अपि दधुस्तुलाम् । मरीचिकादकाssकाशकजवन्ध्यातनूरुहाम् ||३८|| हृद्यविद्यागुणगणैर्विनेयपटलीपटीः ६९९ पाणिवेनावयति स्म येषां वाक्चातुरी तुरी ॥ ३९ ॥ अहो ! लाभोदयो यैस्तु दीक्षिता शिष्य सप्ततिः । तत्र पञ्चदशाऽभूवन् पण्डिता 'द्वौ च वाचकौ ॥ ४० ॥ येषां गीतार्थसार्थेषु मुख्यताऽभूत् तपागणे । प्रहेष्विव मरुन्मार्गे पद्मिनीयसामिव ॥ ४१ ॥ तेषां तनूर्द्वितीयेव तृतीयमिव लोचनम् । श्रीविद्याविजयो विद्वान् विद्यानां निधिभूरभूत् ॥ ४२ ॥ ज्ञानविज्ञानमुख्यास्तु यस्मिँल्लोकम्पृणा गुणाः । नासिकेव मुखे किन्तु विनयो दिद्युतेतराम् ॥ ४३ ॥ शिष्यभावेन तस्याहं दत्तस्तैः श्रीगुरूत्तमैः । निरक्षरोऽप्यथो तेन शिक्षया साक्षरीकृतः ॥ ४४ ॥ याभ्यां कुञ्जरतां नीतः पूतरप्रतिमोऽप्यहम् । ताभ्यां गुरुभ्यामनृणी भवेयं कथमाभवम् ॥ ४५ ॥ मातापित्रोरिव तयोः प्रसादादेव केवलम् । आलपन् बालवत् किञ्चिद् न निन्द्योऽहं महत्तरैः || ४६ ॥ अथो बृहद्गुरोः शिष्यो गुरोश्च गुरुसोदरः । श्रीमविजयोऽभिज्ञो जज्ञे कविषु कुञ्जरः ॥ ४७ ॥ श्रीहेमसुकवेस्तस्य हेमसूरेरिवाऽभवत् । बाग्लालित्यं तथा देवे गुरौ भक्तिव भूयसी ॥ ४८ ॥ यदीया कविताकान्ता न केषां कौतुकावहा ? | विनापि हि रजो यस्माद् यशः सुतमसूत या ॥ ४९ ॥ तेन श्रीविजयसेनसुरेः सर्वज्ञचित्तहृत् । १ उपाध्याबश्रीगुणविजयगाणि - उपाध्यायकुशश्रीलसागरगणिनामानौ पाठकावभूताम् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy