SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः । राशि चन्द्र तमसो राहोर्भियामुद्वेगो न भवत्येव, दिने दिने वृद्धिमत्वादिति, परं एतचित्रं अतीव विस्तरवतीं वार्ती गाहते, एतदिति किं०, यन्नवे राज्ञि सकलाः कलाः सङ्गं विदधिरे, किं०, कामोत्सवे हेतवः कारणमिति नवं हि राजानं चन्द्रं कला युगपत् सर्वा अपि न गच्छन्ति कलाद्वयशेपभृत्यादित्यद्भुतम् ॥१०२॥ अभूदसिन् लक्ष्मीरतिरतिकरी हीरविजय व्रतीन्द्रस्यैश्वर्य श्रितवति गुरौ गौरवगृहे । सहस्रांशोरुस्रोत्करमिव वरं दीपकलिकाकुरे स्फाराकारे कलयति जनोल्लासजननी ॥१०॥ अस्मिन् श्रीविजयसेनमूरो, श्रीहीरविजयव्रतीन्द्रस्यैश्वर्य प्रभुत्वं, श्रितवति लक्ष्मीर्जिनशासनप्रभुता रूपा, अतिरतिकरी, अभूद् जातेति, इवेति दृष्टान्ते, यथा सहस्रांशोः सूर्यस्य, उस्रोत्करं रुचिभरं, दीपकलिकाङ्कुरे कलयति सति, लक्ष्मीर्भवति, कीदृशी, जनोल्लासजननीति विशदम्, अत्र सर्गे उपेन्द्रवज्राख्यं छन्दः, अन्त्ययोत्तयोः प्रथमे शार्दूलविक्रीडितं द्वितीये शिखरिणी चेति, तल्लक्षणं तु प्रागुक्तमेव ॥ १०३ ॥ इतीति सर्वमवदातम् । इति सकलसुविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिशिष्यमुख्यपण्डितपुरन्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनयवाचकश्रीगुणवि'जयगणिविरचितायां विजयप्रदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां चतुर्दशः सर्गोऽर्थतः समर्थितः।।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy