SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ अहम् अथ पञ्चदशः सर्गः। अथ पञ्चदशः सर्गः प्रारभ्यतेअथ गुरुस्तपगच्छपरम्परा पुटकिनीतुहिनेतरदीधितिः । विहरति स्म शुभेऽहनि पत्तना दतमसं विदधद् वसुधामिमाम् ॥ १॥ अथ भट्टारकत्वमाप्तौ, गुरुः श्रीविजयसेनमुरिः, किं०, तपगच्छपरम्परैव पुटकिनी पद्मिनी तस्यां तुहिनेतरदीधितिरुष्णराश्मिः सूर्य इति यावत् , किं कुर्वन् , इमां वसुधां अतमसं सोद्योतां निष्पापां वा, विदधत् शुभेऽहनि पत्तनाद् विहरति स्मेत्यर्थः ॥१॥ अथ त्रिभिर्वृत्तैरर्थं समर्थयतिरय इव द्युसदां सरितो गवां समुदयैः सुखिताखिलभूतलः । कृतमहाव्रतिचित्तसमुन्नतिः .. सुमनसां प्रचुरप्रमदैकभूः ॥ २ ॥ स विचरन् क्रमतो वसुधावधू तिलकतुल्यमतुल्यमहोदयम् । क्षितिषु तीर्थमिति प्रिययाह्वया प्रथितमुत्तमसंपदभङ्गुरम् ॥ ३ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy