SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ पश्चदशः सर्गः। नगरमब्धितरङ्गविराजितं सकलमङ्गलमञ्जुलमागमत् । तदतिलङ्कमकार्यजडादरं पुरमसौ विशति स्म गुरूत्तमः ॥ ४ ॥ घुसदां सरितो गङ्गायाः, रयः प्रवाह इव, गवां वाचां, समुदयैः, पक्षे गवां पाथसां, समुदयः, सुखितं अखिलं भूतलं येन सः, कृता महावतिनो महावतिनां च चित्तसमुन्नतिर्येन सः, पुनः, सुमनसां सतां सुराणां च, प्रचुरप्रमदस्यैकं भूः स्थानम् ॥२॥स क्रमतो विचरन् वसुधावध्वास्तिलकतुल्यं, पुनः, अतुल्यो महोदयो यत्रेति क्षितिषु तीर्थमिति स्तम्भतीर्थमिति, प्रियया आह्वया रुचिरया संज्ञया, प्रथितं, पुनः, उत्तमा या संपत् तया अभङ्गुरमविनाशि ॥ ३॥ गुरूत्तमः श्रीमूरिः, तन्नगरं स्तम्भतीाख्यं, किं०, अब्धेः समुद्रस्य तरङ्गैर्विराजितं, पुनः, सकलमलैर्मञ्जुलं, पुनः, कार्ये जड़ाः कार्यजडा मूर्खा T विद्यते कार्यजडानां आदरो यत्र तत् अकार्यजडादरं, अत एव अतिलक् अतिक्रान्ता लङ्का येनेति तत् , लङ्का हि कानां नीराणां अर्यः पतिः कार्यः समुद्रस्तस्य, जले न विद्यते आदरो यस्याः सा ईदृशी न स्यात् , विशति स्मेति प्राविशत् ॥ इति त्रयाणां व्याख्या ॥४॥ .. भवदतुच्छमहोत्सवपेशलं नगरमेत्य तदद्भुतमङ्गलम् । प्रविदधे बृहती स्थितिमाग्रहाद् गृहवतां स इहैव गुरुस्तदा ॥ ५॥ भवन्तो येऽतुच्छा महोत्सवास्तैः पेशलं, तन्नगरं तीर्थाख्यं,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy