SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ५३६ विजयप्रशस्त्याम् । अद्भुतमङ्गलं यथा स्यात्तथा, एत्यागत्य, गृहवां अगारिणां, आग्रहाद् बृहती स्थिति ज्येष्ठस्थिति, प्रविदधे ॥ ५॥ अथ च तत्र पुरे वसतः प्रभो रजनि लाभ उदारमहा महान् । कुसुमकाण्डभिदः सुहृदो दिगो. कसि तमिस्ररिपोरिव तस्थुषः ॥ ६॥ __ अथ चतुर्मासस्थित्या, तत्र प्रभोर्वसतः सतः, उदारं महस्तेजः उत्सवो वा यत्र सः, लाभो महान् अजनि जात इति, यथा तमिरिपो रवेः, कुसुमकाण्डभिदः स्मरारेः, सुहृदो धनदस्य, दिगोकसि उत्तरस्यां, तस्थुपः स्थितवत इति उत्तरायणे हि सूर्यस्य तेजोद्धिः स्यादेवेति ॥ ६॥ पुरि च तत्र विधाय बहुस्थिति ____ सततसुस्थितधर्मपथस्थितः। गुरुवरो विजहार ततः पुरात् प्रमुदिताखिललोकपरम्परात् ॥ ७ ॥ .. तत्र पुरे, बहुस्थितिं विधाय वहून् मासान् स्थित्वा, गुरुवरः कि०, सततं मुस्थिते धर्मपथे मर्यादारूपे स्थितः, ततः पुरात किं०, गुरुस्थितेरेव प्रमुदिताऽखिललोकपरम्परात् , विजहार विहतवानिति ॥ ७॥ अथ च निर्जरनिर्झरिणीरया दतिपवित्रतया प्रथितैः सदा। भुवमिमां परितः परिपावयन् पदपयोरुहपांसुभिराप्तराट् ॥ ८ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy