SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ चतुः सर्गः। १६१ रेखा सुदर्शनस्येव प्रथमा प्रथमाकृतेः ॥ ३०॥ ब्रह्मवन्तः शीलधारिणो ये गृहस्थास्तेषु, यस्य श्रेष्ठिशिरोमणे, पुनः किं०, प्रथमा प्रधाना आकृतिर्यस्य तस्य, सुदर्शनश्रेष्ठिन इव प्रथमा रेखा, जातेति शेषः ॥३०॥ अथ सप्तभिर्गुरुमातरं वर्णयतिउल्लसद्भाग्यसौभाग्या लावण्यजलदीर्घिका । नाथी तस्याऽभवद् भार्या लक्ष्मीर्लक्ष्मीपतेरिव ॥३१॥ उल्लसन्ती दीप्यमाने भाग्यसौभाग्ये यस्याः सा, पुनर्लाचण्यं सद्गमनसनिरीक्षणसजल्पनरूपं तदेव जलं तस्य दीधिका वापिका, नायीनानी तस्य भार्याऽभवत् , यथा लक्ष्मीपतेर्नारायणस्य, लक्ष्मीरिति ॥ ३१॥ सदोदाराऽन्धिपुत्रीव रम्भेव च वृषादरा । . पद्मिनीव सदामोदा हरीणामपि या मुदे ॥३२॥ अन्धिपुत्रीव लक्ष्मीरिव, सदा उदारा लक्ष्मीपले उदारा महती, देवतासु हरिपियेत्युक्तेः, नाथीपक्षे उदारा महेच्छा सरला वा पुनः रम्भेव पादरा एकत्र वृषा इन्द्रस्तत्रादरो यस्याः सा, अन्यत्र पे धर्मे आदरो यस्याः सा पुनः पबिनीव सदामोदा एकत्र आमोदो गन्धः, अन्यत्र आमोदो हर्षो यस्याः सा, अत्र लक्ष्मीपक्षे हरीणां नारायणानां बहुत्वं पूज्यत्वात् , दशावतारत्वेन रहुत्वाद् वा, रम्भापक्षे हरीणां इन्द्राणां, पबिनीपले हरीणां सूर्याणां, तथा या नाथी हरीणां विष्णुशक्रम्र्याणां त्रयाणामपि, सकलदेवार्चनीयश्रीगुरुरूपपुत्रप्रसवहेतुत्वेन सुदे, अस्तीति शेषः॥३२॥ पकेरुहं जडोल्लासि दोषोल्लासी सुधाकरः ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy