________________
१६२
विजयप्रशस्त्याम् ।
यन्मुखेन समे नेमे मतिमद्गुणपोषिणा ॥ ३३ ॥
पङ्केरुहं कमलं, किं०, जडोल्लासि डलयोरैक्यात् जले उल्लासि, पक्षे जडेन मूर्खेणेति शेषः; पुनः सुधाकरश्चन्द्रः, किं०, दोषोल्लासी दोषैरादीनवः, पक्षे दोषायां निशायां उल्लासी इति दोषः; यन्मुखेन इमे द्वे, न समे, मुखेन किं०, मतिमतां गुणान् पोषयतीति तेन । अत्र मतिमत्पदेन जडोल्लासित्वं, गुणपदेन दोषोल्लासित्वं चाऽपास्तम् ॥ ३३ ॥ मौक्तिकस्वर्णरत्नानां नूत्नालङ्कृतयोऽपि हि । प्रत्युतालक्रियन्ते स्म यच्छरीररुचां भरैः ॥३४॥
मौक्तिकस्वर्णरत्नानां नूना नव्या अलङ्कृतयोऽलङ्काराः, प्रत्युत यच्छरीररुचां भरेर्यस्या नाथीनाम्न्याः शरीररुचा वपुस्तेजसां भरैः, अलङ्क्रियन्ते स्म । यतस्तत्संयोगेन तेषां तेजःसद्भावात् , एतेन तस्याः शरीरथुतेरतिशायित्वं दर्शितमिति ॥ ३४ ॥
सीता कुशीलतासारा शश्वज्जडा सुरापगा। यस्या नेत्यनयोः साम्यं शीलकौशलसम्पदः ॥३५॥
सीता जानकी, किं०, कुशीलतासारा कुशीलस्य भावः कुशीलता तया सारा, नन्वत्र सीता तु सुशीलत्वेन प्रतीता. सा कुशीलतासारा कथं स्यात् । इति प्रकटो विरोधः अथ विरोधपरिहारस्तु सीता हलपद्धतिः सा तु कुशीलतासारा, तत्र कुशी लोहविकारः सैव लता कुशीलता तया सारा कुशीलतासारा इत्यर्थेन कृत इति दिक् । पुनः सुरापगा गङ्गा, किं०, शश्वजडा नित्यजडा डलयोरक्याद् नित्यजला नित्यमूर्खा च, इति हेतोः, अनयोः सीतागङ्गयोः, यस्याः साम्यं न, अस्तीति शेषः । यस्याः