SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १६३ चतुर्थः सर्गः। कि०, शीलकौशलयोः संपद् यस्याः सा, अत्र शीलपदेन कुशीलत्वं, कौशलपदेन नित्यजडत्वं चाऽपास्तमिति तत्त्वम् ॥३५॥ कुरङ्गत्वरजोयुक्त्वप्रोन्मादित्वकलङ्किषु । न यल्लोचनतुल्यत्वं सारङ्गाम्भोजसीधुषु ॥ ३६ ॥ यल्लोचनयोस्तुल्यत्वं सारङ्गाम्भोजसीधुषु मृगपङ्कजमयेषु, न, भवतीति योगः। अथ विशेषणद्वारेण तद्धेतुमाह-कुरङ्गत्वरजोयुक्त्वपोन्मादित्वलक्षणः कलङ्को येषु ते कुरङ्गत्वरजोयुक्त्वोन्मादित्वकलङ्किनस्तेषु, यतो मृगस्य कुरङ्गत्वात, पद्मस्य सरजस्त्वात्, मद्यस्य चोन्मादित्वात् दोषदुष्टतेति निगर्वः ॥३६॥ सिंहः कटिगतिर्हस्ती मुखं चन्द्रो दृगम्बुजम् । .. नामूनि कलहायन्ते मिथो वैरेऽपि यत्तनौ ॥ ३७॥ कटिरूपः सिंहः, गतिरूपो हस्ती, मुखरूपश्चन्द्रः, दृगरूपं अम्बुजं, अमूनि एतानि, मिथः परस्परं, वैरे सत्यपि, यत्तनौ यस्याः शरीरे, न कलहायन्ते कलिं न कुर्वन्तीति अद्भुतालकृतिः ॥ ३७॥ . सा भुङ्क्ते स्म भवानीव कौमुदीकान्तशालिना । साई स्वप्राणनाथेन नाथी सांसारिकं सुखम् ॥३८॥ · कौमुदीकान्तशालिना महादेवेन, भवानीव पार्वतीव, सा नाथी, स्वप्राणनाथेन कुंराख्यश्रेष्ठिना, सार्द्ध सांसारिकं सुखं भुङ्क्ते स्माऽभुङ्क्तेति ॥ ३८॥ कुंराख्यश्रेष्ठिनः पत्नी सुखसुप्ताऽथ साऽन्यदा। बिभर्ति स्मोत्तमं गर्भमभ्रमालेव वारिदम् ॥ ३९ ॥ सा कुराख्यव्यवहारिभार्या सुखसुप्ता सती, अन्यदा उत्त
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy