SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ विजयपशस्त्याम् । निष्कलङ्क समालोक्य साक्षाद् यं यस्य वेश्मनि । श्रीश्चलत्वकलङ्क खं माटुकामेव तस्थुषी ॥ २६ ॥ ___यं कुराख्यं श्रेष्ठिन, निष्कलई कलावर्जितं, समालोक्य श्रीश्चलत्वलक्षणं स्वं कलझं माष्टुकामेव त्यक्तुकामेव, यस्य श्रेष्ठिनः, वेश्मनि तस्थुषी स्थिता ॥ २६ ॥ पुमर्थत्वेन धर्मार्थकामेषु सदृशेष्वपि। संजघ्नतुः सङ्गतौ द्वौ यद्धर्म नार्थमन्मथौ ॥२७॥ पुमर्थत्वेन पुरुषार्थतया, धर्मार्थकामेषु सदृशेषु तुल्येष्वपि सत्सु, यस्य श्रेष्ठिनो धर्म, अर्थमन्मथो धनकामो, किं०, सन्तो मिलितावपि, न संजघ्रतुन इतवन्तौ, अनेन धर्मदायममूचीति ॥२७॥ धर्मो धत्ते ध्रुवं पुंसामर्थकामौ निषेवितः । ध्यावेति धीमता येन धर्म एवाऽऽहतः सदा ॥२८॥ ध्रुवं निश्चितं, धर्मो निषेवितः सन, अर्थकामो धत्ते पुष्णाति, इति ध्यात्वा येन धीमता बुदिशालिना, श्रेष्ठिना धर्म एवाहतः ॥२८॥ दानं दीनार्थिपात्रेषु नित्यं येनाऽपि यच्छता। बहमन्यन्त पात्राणि पयोदेनेव वहिणः ॥ २९ ॥ दीना दुःस्थिताः, अर्थिनो याचकाः, पात्राणि च श्रमपश्रमणीश्रादश्रादीरूपाणि, तेषु येन दानं यच्छतापि पात्राणि बहु अमन्यन्त भूरि मेनिरे, यथा पयोदेन मेघेन, बहिणः फेकिन इति ॥ २९॥ ब्रह्मवत्स गृहस्थेषु यस्य श्रेष्ठिशिरोमणेः ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy