SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । प्रत्यहं मौक्तिकानीव ढौक्यन्ते चाऽक्षताक्षताः । प्रह्लादनविहारेऽस्मिन् मूढकप्रमिता जनैः ॥ २२ ॥ प्रतिदिनं मुक्ताफलानीवाऽक्षताक्षता अखण्डलाजा:, अत्र महादनविहारे मूढकः शतमणप्रमाणस्तन्मिता ढोक्यन्ते, एकदिने तत्रत्यैर्जनैर्नत्यर्थमागतैरिति ॥ २२ ॥ १५९ जनानां मुञ्चतां पूगीफलान्यस्मिन् जिनौकसि । बीजानीव स्वभाव द्रोर्मणान्यासंश्च षोडश ॥२३॥ अत्र जिनौकसि पार्श्वप्रासादे, जनानां किं कुर्वतां, मुञ्चतां, कानि, पूगीफलानि षोडश मणानि एकस्मिन्नहनि आसन् जातानि स्वभावद्रोर्निजभक्तिरागतरोः, बीजानीवेत्युत्प्रेक्षा ॥२३॥ यत्रेति वचनैरभ्यागतं प्रणयिनं प्रजाः । सुखयामासुरानन्दकन्दकन्दलनाम्बुदैः ॥ २४॥ यस्मिन् पुरे, इति वचनैः किं०, आनन्दकन्दस्य कन्दलने पल्लवने अम्बुदैः, अभ्यागतं प्रणयिनं मित्रबान्धवादिकं, प्रजालोकाः, सुखयामासुः ॥ २४ ॥ अथ षड्भिः श्लोकैर्गुरुपितरं विशिनष्टि तत्र कुंराभिधः श्रेष्ठी श्रेष्ठधीः शिष्टशेखरः । महेश इव संजातः सर्वदासर्वमङ्गलः ॥ २५ ॥ तस्मिन् प्रह्लादनपुरे, कुंराभिधः श्रेष्ठी, किं०, श्रेष्ठा धीर्यस्य, पुनः किं०, शिष्टेषु शेखरोऽवतंसः, महेश इव संजातः किं०, एकत्र सर्वदा सर्वाणि मङ्गलानि यस्य सः, अन्यत्र सर्वमङ्गला पार्वती यस्य सः ॥ २५ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy